________________
सटीकम् ।
१२५
दशपुराणामधिपस्य नृपस्य । कीर्ति यशः । जनबदनजाम् एवं लोकमुखजनिताम् । अकीर्ति रन्तिदेवस्यायशः । पुण्यतोयैः तीर्थोदकैः । क्षालयन् प्रक्षालयन् । मानयिष्यन् पूजयिष्यन् । विशुद्ध्यनन्तरं संमानं करिष्यन् इत्यर्थः । व्यालम्बेथाः आश्रयेथाः अवतरेत्यर्थः ३६ इतः पादवेष्टितम् —
तस्या मध्येजलमुपचिताम्भोनिकाये मुहूर्त छायां कृष्णाजिनमदहरां सन्दधाने समग्राम् । मन्ये युक्तं सरिति सुतरां तत्र चर्मण्वतीति त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचोरे ॥ ३७ ॥
66
छाया
तस्या इति ।। उपचिताम्भोनिकाये सञ्चितजलव्रजे । " निदग्धोपचिते " इत्यमरः । इदमेव कृष्णत्वसाधकत्वम् । कृष्णाजिनमदहरां कृष्णाजिनस्य असितचर्मणः मदहरां भङ्गकरीम् । तस्मादप्यतिकृष्णत्वान्मदहरत्वम् । समग्रां सम्पूर्णाम् । छायां का सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः " इत्यमरः । सन्दधाने सम्यक् . बिभ्रति । शाङ्गिणः कृष्णस्य । " पीताम्बरोऽच्युतः शार्ङ्ग " इत्यमरः । वर्णचोरे वर्णस्य कान्तेश्वोरः । औचित्यादर्थनिर्णय इति । ग्राही तस्मिन् तत्समानवर्ण इत्यर्थः । त्वयि भवति । जलम् उदकम् । आदातुं ग्रहीतुम् । तस्याः चर्मण्वतीनद्याः । मध्येजलं जलस्य मध्यं मध्येजलम् | “ पारेमध्येन्तषष्ठ्याः " इत्यव्ययीभावे निपातनादेत्वम् 1 सप्तम्याः ” इति वाम् । जलस्य मध्यप्रदेशे इत्यर्थः । मुहूतै मुहूर्तपर्यन्तम् । अवनते अवलम्बिते सति । तत्र सरिति तन्नद्याम् । चर्मण्वती चर्मास्या अस्तीति चर्मण्वती । अष्ठीवत् -" इत्यादिना तोर्मकारस्य वत्वम् 1 नृदुग् " इति ङी । इति एवं नामेति शेषः । युक्तं व्युत्पत्तियोग्यम् । सुतराम् अत्यंतं मन्ये जाने ॥ ३७ ॥
66
1
"
“