________________
१२४
पार्श्वाभ्युदय काव्यं
66
धानम् । अभिख्या नामशोभयोः " इत्यमरः । शरवणभवं शराणामुदकानां वनं संश्रयः शरवणम् । " प्राप्रेन्तर्निश्शेः " इत्यादिना णत्वम् । “शरो दध्याद्यग्रसारे वाणे काण्डे तृणान्तरे । शरं तु नीरे” इति नानार्थरत्नमालायाम् । “ प्रवप्रवासनिवासवारिकान्तारेषु वनम् " इति नानार्थरत्नमालायाम् । भुवनजनतामाननीयं भुवनानां जगतां जनास्तेषां समूहो भुवनजनता 1 ग्रामजन इत्यादिना तल् । तया माननीयं पूजनीयम् । एनं प्राक्कथितम् । देवं स्वामिनम् । आराध्य पूजयित्वा । उल्लङ्घिताध्वा उच्चलितमार्गः । वैणिभिः वीणास्त्येषामिति तथोक्तास्तैः । वीणया कलितैः । सिद्धद्वन्द्वैः सिद्धमिथुनैः । जलकणभयात् त्वन्नीरबिन्दुपतनभीतैः । जलसेकस्य वीणाकणनप्रतिबन्धकत्वादित्याशयः । मुक्तमार्गः त्यक्ताध्वा सन् । आशु शीघ्रेण । व्रज गच्छ । अत्र चतुर्ष्वप्यतीतेषु पद्येषु परपक्षप्रतिपक्षतया तत्तदर्थानुसारेण कल्पनाकथा काचित्कल्पनीया वादार्थपरत्वादस्य काव्यस्येत्यभिमन्तव्यम् || ३५ ॥
""
गत्वा तस्मादविरलगलन्निर्झरान्तर्मलां तां प्राप्याकीर्त्ति जनवदनजां क्षालयन्पुण्यतोयैः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ३६ ॥४७॥
गत्वेति ।। तस्माद्देवगिरेः सकाशात् । गत्वा चलित्वा । अविरलगलन्निर्झरान्तर्मलाम् अविरलं निरन्तरं गलन् निर्गच्छन् निर्झरेण प्रवाहेणान्तर्मलामन्तः कलुषिताम् । तां प्रसिद्धां चर्मण्वतीनामनदीम् । प्राप्य आसाद्य । सुरभितनयालम्भजां सुरभितनयानां गवाम् आलम्भनेन सञ्ज्ञपनेन जायते इति जाताम् । " आलम्भपिञ्जवि - शरघातोन्माथवधा अपि " इत्यमरः । भुवि लोके । स्रोतोमूर्त्या प्रवाहरूपेण । परिणतां रूपान्तरमवाप्ताम् । रन्तिदेवस्य तदभिधानस्य ।