________________
सटीकम् । धौतापाङ्गं हरशशिरुचापावकेस्तं मयूरं ___ पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ३४ ॥ ४६॥ . य इति॥सकलजगतां सर्वलोकानाम् । तात्स्थ्यात्तद्व्यपदशात्रैलोक्यभव्यजनानाम् इति यावत् । पावकात् पुनीते इति पावकस्तस्मात् । “ पूञ् पवने ण्वुत्रचू" ण्वुः । सद्धर्मात् संश्चासौ धर्मश्च तस्मात् । सद्विशेषणादहिंसादिलक्षणत्वं लक्ष्यते । यः । लब्धजन्मा प्राप्तोदयः। तस्य सार्थकनाम्नः पावकेः पावकात् भवः पावकिस्तस्य । " अत इञ्” इतीञ् । प्रथमं प्राक् । उचितां योग्याम् । सत्लपयो समीचानां पूजाम् । “ सपर्याश्चाहणाः समाः ” इत्यमरः । प्रीत्या अनुरागेण । विधेहि कुरु । पश्चात् तदनु । हरशशिरुचा ईशानचन्द्रचन्द्रिकया । धौतापाङ्गं सत्वोपिश्चैत्यादति धवलिते नेत्रान्ते यस्य तम् । तं मयूरं तद्यानभूतं शिखिनम् । अद्रिग्रहणगुरुभिः अद्रेः देवगिरेः ग्रहणेन गुरुभिः महद्भिः प्रतिध्वानप्रवृद्धैरित्यर्थः । गर्जितैः स्तनितैः । नर्तयेथाः नाटय । मार्दङ्गिकभावेन नर्तयेत्यर्थः ॥ ३४ ॥ हृद्यस्वच्छे सरसि विपुले धर्मसज्ञे भवत्वा-.
ल्लुब्धाभिख्यं भुवनजनतामाननीयं व्रजाशु । आराध्यैनं शरवणभवं देवमुल्लचिताध्वा
सिद्धद्वन्द्वैर्जलकणमयाद्वैणिभिर्मुक्तमार्गः ॥ ३५॥ हृद्य इति ॥ हृद्ये मनोहरे। “अभीष्टेऽभीप्सितं हृद्यम्" इत्यमरः । स्वच्छे निर्मले विमले । विपुले रुण्ड्रे.। "रुण्ड्रोरुविपुलं पीनम्" इत्यमरः । धर्मसझे धर्म इति सज्ञा नाम यस्य तस्मिन् । “सञ्ज्ञा स्याञ्चेतना नाम हस्ताद्यैश्चार्थसूचना” इत्यमरः । सरसि सरस्याम् । भवत्वात् उद्भूतत्वात् । लब्धाभिख्यं प्राप्ताभिधानम् । “ अभि१ वीणिभिरित्यपि पाठः।