________________
१२२
पार्श्वभ्युदयकाव्यं दित्यादपि प्रकृष्टम् । “ गतादिषु प्रादयः” इति समासः । देववृन्दे अमरनिकाये । अग्र्यम् अग्रे भवमग्र्यं श्रेष्ठम् । “ परार्ध्याग्रप्राग्रहरप्राग्राग्र्यानीयमग्रियम्” इत्यमरः । तत्तेजः तत् प्रसिद्धं तेजोरूपं चैतन्यम् । हि स्फुटम् । भविता । “ ण्वुत्रचू " इति त्रप्रत्ययान्तः । तत्सामर्थ्यरूपो भवितासीत्यर्थः । विधेयप्राधान्यान्नपुंसकनिर्देशः ३२
सोऽपि त्वत्तः श्रुतिपथसुख गर्जितं प्राप्य बहीं __तुष्टः केकाः प्रतिविकुरुते वाहनं तस्य भर्तुः। ज्योतिर्लेखावलयि गलितं यस्य बर्ह भवानी
पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति ॥ ३३ ॥ सोऽपीति ॥ यस्य मयूरस्य । ज्योतिर्लेखावलयि ज्योतिषां तेजसां लेखा राजयः तासां वलयं मण्डलमस्यास्तीति तथोक्तम् । गलितं च्युतम् । स्वयं निपतितमित्याशयः । बहै पिच्छम् । “पिच्छबर्हे नपुंसके ” इत्यमरः । भवानी पार्वती । पुत्रप्रेम्णा सुतस्नेहेन । कुवलयदलप्रापि कुवलयस्य दलं पत्रं तत्प्रापि तद्योगि यथा तथा । कर्णे श्रोत्रे । करोति विदधाति । दलेन सह धारयतीत्यर्थः । यद्वा दलप्रापि दलं प्राप्नोति दलप्रापू तस्मिन् । दलाहे कर्णे करोति । किवन्तात्सप्तमी । दलं परिहत्य तत्स्थाने बर्ह धत्ते इत्यर्थः । सोपि स च । तस्य भर्तुः स्कन्दाभिधानस्य विभोः । वाहनम् आविशिष्टलिङ्गत्वात् नपुंसकत्वम् । यानभूतः बहीं मयूरः । त्वत्तः भवतः सकाशात् । श्रुतिपथसुखं श्रुत्योः श्रोत्रयोः पथस्य विवरस्य सुखं यथा तथा । गर्जितं स्तनितम् । प्राप्य लब्ध्वा । तुष्टः सन्तुष्टः सन् । केकाः केकारवान् । प्रतिविकुरुते गर्जितस्य प्रतिध्वनीन् कुरुते॥३३॥ यः सद्धर्मात्सकलजगतां पावकालव्धजन्मा
तस्य प्रीत्या प्रथममुचितां सत्सपर्या विधेहि ।