________________
. सटीकम् ।
११९ त्वन्निष्यन्दोच्छ्रसितवसुधागन्धसम्पर्करम्यः
स्रोतोरन्ध्रध्वनितमधुरं दन्तिभिः पीयमानः ॥ २९॥ उत्तीर्येति ॥ त्वनिष्यदोच्छसितवसुधागन्धसम्पर्करम्यः तव निष्यन्दो निष्यन्दनं तेन वर्षणेन उच्छसितायाः उज्जृम्भितायाः वसुधायाः भूमेर्गन्धस्य परिमलस्य सम्पर्केण सङ्गेन रम्यः मनोहरः । दन्तिभिः गजैः । स्रोतोरन्ध्रध्वनितमधुरं स्रोतश्शब्देनेन्द्रियवाचिना तद्विशिष्टं घ्राणं लक्ष्यते । “ स्रोतोम्बुवेगेन्द्रिययोः” इति विश्वः । स्रोतोरन्ध्रेषु नासाकुहरेषु । यद्धनितं शब्दः तेन सुभगं रुचिरं यथा भवति तथा । पीयमानः पीयते इति तथोक्तः । वसुधागन्धलोभादाघ्रायमाण इत्यर्थः । सुगन्धः सुरभिः । त्वत्सुहृद्वा । " गन्धोगन्धकसम्बधामोदलेशस्मयेषु च” इत्युभयत्रापि भास्करः । असौ गन्धवाहः एषोऽनिलः । अमूं गम्भीरां नदीम् । कथमपि कष्टेनापि । उत्ती> उल्लङ्घय । ततः तत्प्रदेशात् । गन्तुं यातुम् । उद्यच्छमानं प्रयतमानम् । त्वां भवन्तम् । अनुवनं वनदैर्येण । " दैर्येऽनुः” इत्यव्ययीभावः । उन्नेष्यति गमयिष्यति ॥ २९ ॥ गत्वा किञ्चिच्छ्रमपरिजुषस्त्वत्क्लमच्छेददक्षः
प्रत्युद्यासुः प्रियसुहृदिवारूढसौगन्ध्ययोगः। नीचैर्वास्यत्युपजिगमिषोर्देवपूर्व गिरिं ते
शीतो वातः परिणमयिता काननोदुम्बराणाम् ॥३०॥४४॥ गत्वेति ॥ किञ्चित् कियङ्करम् । गत्वा यात्वा । श्रमपरिजुषः श्रमयुक्तस्य । प्रियसुहृदिव प्रियमित्रमिव । प्रत्युद्यासुः प्रत्युद्यातुमिच्छुः अभिगन्तुमिच्छुः । देवपूर्व देवशब्द एव पूर्वे यस्य तम् । गिरिं देवगिरिमित्यर्थः । उपजिगमिषोः उपगन्तुमिच्छुः उपजिगमिषुस्तस्य
१ शीतो वायुरित्यपि पाठः ।