________________
११८
पार्श्वाभ्युदय काव्यं
वस्त्रं नीलाम्बरधरणं विरहतापनिवारणमिति प्रसिद्धिः । हृत्वा अपनीय । उच्चरत्पक्षिमालाभास्वत्काञ्चीमधुररणितात् उच्चरतां स्वनतां पक्षिणां माला सैव भास्वत्काथ्वी स्फुरन्मेखला तस्या मधुरं श्रुतिप्रियं रणितं ध्वनिर्यस्य तत् तस्मात् । पुलिनजघनात् पुलिनमेव जघनं तस्मात् । “ तोयोत्थितं तत्पुलिनम् " इत्यमरः । कामसेवाप्रकर्षे मन्मथसेवनोत्कर्षम् । उच्चैरधिकम् । ज्ञास्यसि मनिष्यसि ॥ २७ ॥
!
तामुत्फुल्लप्रततलतिकागूढपर्यन्तदेशां
कामावस्थामिति बहुरसां दर्शयन्तीं निषद्य | प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञाताखादो विवृतजघनां को विहातुं समर्थः ॥ २८॥४३ ॥ तामिति ॥ सखे हे भित्र । बहुरसां बहुलो रसो जलं शृङ्गारादि सो यस्यास्ताम् । कामावस्थां मन्मथावस्थाम् । इति एवंरीत्या । दर्शयन्तीम् प्रकटयंतीम् । उत्फुल्लप्रततलतिका गूढपर्यन्तदेशाम् उद्गतानि फुल्लानि पुष्पाणि यासां तास्ताभिः । प्रतताभिर्लतिकाभिः वल्लरीभिः गूढः संवृतः पर्यन्तदेशो यस्यास्ताम् । " प्रततिविस्तृतौ वहयाम् " इति विश्वः । तां गम्भीरां नदीम् । निषद्य आश्रित्य | लम्बमानस्य अवलम्ब्यमानस्य । जघनमारुह्य स्थितस्येति ध्वन्यते । तव । प्रस्थानं प्रयाणम् । “प्रस्थानं गमनं गमः" इत्यमरः । कथमपि कृच्छ्रेणापि । भावि भविष्यति । अत्र कृच्छ्रत्वे कारणमाह । ज्ञातास्वादः अनुभूतरसः । विवृतजघनां विवृतं प्रकटितं जघनं कटिस्तत्पूर्वभागो वा यस्यास्ताम् । “जघनं स्यात्कटिपूर्वश्रोणीतांगावरा स्यात् " इति यादवः । विपुलजघनामिति पाठः । विहातुं त्यक्तुम् । कः पुमान् समर्थः दक्षः । कोपि न शक्त इति भावः ॥ २८ ॥
उत्तीर्यामूं कथमपि ततो गन्तुमुद्यच्छमानं त्वामुन्नेष्यत्यनुवनमसौ गन्धवाहः सुगन्धः ।