________________
११७
सटीकम् । तस्मादेवं प्रणयपरतां त्वय्यभिव्यञ्जयन्ती
लीलाहासानिव विदधती सा धुनी शीकरोत्थान् ।। तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या
न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ २६ ॥ ४२ ॥ तस्मादिति ॥ तस्मात् ततः । शीकरोत्थान्जलकणोत्पन्नान् लीलाहासान् लीलायुक्ता हासास्तान् । विदधतीव कुर्वतीव सा धुनी सा नदी । त्वयि भवति । एवम् उक्तप्रकारेण । प्रणयपरतां रागपरत्वम् । अभिव्यञ्जयन्ती प्रकाशयन्ती । भवेदिति शेषः । तस्मात् प्रणयपरत्वव्यञ्जनादेव । अस्याः गम्भीरायाः । कुमुदविशदानि कुमुदानीव विशदानि कुवलयनिर्मलानि । चटुलशफरोद्वर्त्तनप्रेक्षितानि चटुलानि शीघ्राणि शफराणां मीनानाम् उद्वर्त्तनान्युल्लवितान्येव प्रेक्षितानि लोचनानि । 'पाश्चवं चटुलं शीघ्रम् ।' इति । एतदेव गम्भीरायाः त्वयि अनुरागम् । धैर्यात् धाात् । मोघीकर्तु निरर्थकरणाय । त्वं भवान् । नार्हसि योग्यो न भवति । सफलां कुर्विति भावः ॥ २६ ॥
ज्ञास्यस्युच्चैः पुलिनजघनादुच्चरत्पक्षिमाला__ भास्वत्काञ्चीमधुररणितात्कामसेवाप्रकर्षम् । तस्याः किञ्चित्करधृतमिव प्राप्तवानीरशाखं
हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ॥ २७ ॥ ज्ञास्यसीति ॥ तस्याः नद्याः । किञ्चित् करधृतमिव किश्चिदीषत् करेण धृतं हस्तावलम्बितमिव । प्राप्तवानीरशाखं प्राप्ता व्याप्ता वानीरस्य वृक्षविशेषस्य शाखा येन तत् । मुक्तरोधोनितम्बं मुक्तस्त्यक्तो रोधस्तटमेव नितम्बः । “ पश्चिमश्रोणिभागे द्वे कटीकटौ" इति यादवः । नीलं कृष्णम् । सलिलं वसनं सलिलमेव वसनम् । १ नीत्वेत्यपि पाठः।