________________
१२०
पार्श्वभ्युदयकाव्यं समीपं यातुमिच्छोः । ते तव । प्रियसुहृदिव प्रियमित्रवत् । त्वत्क्लमच्छेददक्षः तव क्लमस्य श्रमस्य छेदे निवारणे दक्षः समर्थः । आरूढसौगन्ध्ययोगः शोभनो गन्धः सुगन्धः सुगन्धस्य भावः सौगन्ध्यं तस्य बन्धुत्वस्य सुरभित्वस्य वा योगः सौगन्ध्ययोगः आरूढः सौगमध्ययोगो येन सः । “ गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः” इत्युभयत्राप्यमरः । काननोदुम्बराणां काननेषु वनेषु विद्यमानानाम् उदुम्बराणां जन्तुफलानाम् । “ उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ” इत्यमरः । परिणमयिता परिपक्कं कारयिता । शीतो वातः शीतलो वायुः । “ तुषारः शीतलः शीतः” इत्यमरः । नीचैः शनैः । “ अल्पे नीचैः ” इत्यमरः । वास्यति “वा गतिगन्ध• नयोः ” लट् ॥ ३०॥ ईशोमाभ्यामपचितपदं तं पुपुत्रीयिषुभ्यां
पूजां जैनी विरिरचयिषु स्वौकसि प्राज्यभक्त्या । तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा ___ पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्दैः ॥३१॥
ईशोमाभ्यामिति ॥ तत्र देवगिरौ । स्वौकसि स्वाश्रये । “ओकः सद्माश्रयः" इत्यमरः । नियतवसतिं नियता निर्णीता वसतिः स्थितिर्यस्य तम् । तमेव । पुपुत्रीयिषुभ्यां पुत्रं कर्तु पुत्रयितुं वा इच्छू पुपुत्रीयिषू ताभ्याम् । ईशोमाभ्याम् अष्टदिक्पतितत्पत्नीभ्याम् रुद्रपार्वतीभ्याम् । “ शम्भुरीशः पशुपतिः ।' उमा कात्यायनी गौरी" इत्युभयत्राप्यमरः । अपचितपदम् अपचिते अचिंते पदे चरणे यस्य तम् । “ स्यादर्हिते नमस्थितनमसितमपचायितार्चितापचितम् ” इत्यमरः । जैनीम् अर्हत्सम्बधिनीम् । पूजाम् अर्चनाम् । प्राज्यभक्त्या भजनं भक्तिः प्राज्या चासौ भक्तिश्च तया । विरिरचयिधू विरचयितुमिच्छुः विरिरचयिषुः तं कर्तुमिच्छुम् । स्कन्दं स्क