________________
११४
पार्श्वाभ्युदयकाव्यं
दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशिष्टं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ २२ ॥ ४०॥
""
यदीति । अस्याम् उज्जयिन्याम् । क्षणपरिचयः क्षणस्योत्सवस्य परिचयः परिचर्या । " कालविशेषोत्सवयोः क्षणः इत्यमरः । स्वर्गवास तिशायी स्वर्गवासादप्यतिशेत इत्येवंशीलः तथोक्तः । स्वर्गसुखादपि प्रकृष्टः । यद्यपि भवति चेत्तथापि । तत्र नगर्याम् । आसक्तिं लाम्पट्यम् । दृष्टे उदिते । सूर्ये भानौ । योगात् सङ्गतेः । तदुदये भोगविगमादित्याशयः । " योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु " इत्यमरः । वैरं च विरोधमपि । सपदि शीघ्रेण । शिथिलीकृत्य परिहृत्य । पुनरपि भूयोपि । भवान् त्वम् । अध्वशिष्टम् अवशेषमार्गम् । वाहयेत् गच्छेत् । तथाहि सुहृदां मित्राणाम् । “ अथ मित्रं सखा सुहृत् ” इत्यमरः । अभ्युपेतार्थकृत्याः अभ्युपेता अङ्गीकृता अर्थस्य प्रयोजनस्य कृत्या क्रिया यैस्ते तथोक्ताः । अङ्गीकृतमित्रप्रयोजना इत्यर्थः । “अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिषु" इत्यमरः । क्रियादेवतयोः कार्ये स्त्री कुपिते त्रिषु " इति यादवः । न खलु मंदायन्ते मंदा न भवंति हि मंदम् इव आचरतीति मंदायंते । सुब्धातुः । 'निषेधवाक्यालङ्कारजिज्ञासानुनये खलु " इत्यमरः ॥ २२ ॥ रुद्धे भानौ नयनविषयं नोपयाति त्वयाऽसौ
፡፡
कृत्या
मासो भङ्गादघनिरसनं मा स्म भूत्त्वन्निमित्तम् । तस्मिन्काले नयनसलिलं योषितां खण्डितानां
शान्ति नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ॥ २३ ॥
66
रुद्ध इति ।। त्वया भवता । भानौ सूर्ये । रुद्धे तिरोहिते सति । " संवीतं रुद्धमावृतम् "" इत्यमरः असौ भानुः । नयनविषयं जनानां नेत्रगोचरम् । नोपयाति नोपगच्छति । मासः मासस्य । पद्दन्नोमास् - " इत्यादिना मासशब्दस्य मासित्यादेशः । भङ्गात् अपू
1