SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सटीकम् । ११३ आसारस्य धारा वेगवद्वर्षस्य धारा येन सः। स्तोयोत्सर्गस्तनितमुखरः तोयस्य उत्सर्गो वर्षणं तन्निमित्तं यत् स्तनितम् उच्चैर्गजितमित्यर्थः । तेन मुखरो वाचालः । मा च भूः न भवेत्यर्थः ॥ २० ॥ इतोर्धवेष्टितानिभ्रान्त्वा कृत्स्नां पुरमिति चिरं रात्रिसम्भोगधूपै- . __ लब्धामोदः सुखमनुभव त्वं गरीयानशेषाम् । तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां ___ नीत्वा रात्री चिरविलसनात्खिन्नविद्युत्कलत्रः ॥ २१ ॥ भ्रान्त्वेति ॥ रात्रिसम्भोगधूपैः रात्रौ निक्षिप्तसम्भोगधूपैः । लब्धामोदः लब्धः आमोदो मनोहरपरिमलो यस्य सः । गरीयान प्रकृष्टो गुरुः “ गुणाङ्गात् ” इति ईयस् । “ प्रियस्थिर-” इति गरादेशः । त्वं भवान् । कृत्स्नां सकलाम् । “ विश्वमशेषं कृत्स्नम् " इत्यमरः । पुरं पुरीम् । “पूः स्त्री पुरीनगयौँ वा ” इत्यमरः । इति एवम् । चिरम् । भ्रान्त्वा विहृत्य । चिरविलसनात् चिरस्फुरणात् । खिन्नविद्युत्कलत्रः खिन्ना क्लान्ता विद्युदेव कलत्रं कान्ता यस्य सः । " कलत्रं श्रोणिभार्ययोः ” इत्यमरः । सुप्तपारावतायां सुप्ताः पारावताः परस्परवियुक्ताः कलरवाः यस्यांतस्याम् । “पारावतः कलरवः” इत्यमरः । अनेन पारावतकान्तायां सुखानुभवो ध्वन्यते । कस्यांचित् क्वचित् । भवनवलभौ भवनस्य वलभावाच्छादने उपरिभाग इत्यर्थः । “ आच्छादनं स्याद्वलिभिः गृहाणाम् ” इति हलायुधः । अशेषां सम्पूर्णाम् । तां रात्री निशाम् । नीत्वा यापयित्वा । सुखं विषयसुखम् । अनुभव अनुभूयाः ॥ २१ ॥ यद्यप्यस्यां क्षणपरिचयः स्वर्गवासातिशायी तत्रासक्तिं सपदि शिथिलीकृत्य वैरं च योगात् ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy