________________
११२
पार्थाभ्युदयकाव्यं विपदि । उपक्रिया उपकृतिः। ते तव । कर्त्तव्या विधेया । "वा नाकस्य " इति वा षष्ठी । त्वया विधातव्येत्यर्थः । कनकनिकषस्निग्धया कनकस्य निकषो निकष्यत इति व्युत्पत्त्या निकषोपलगतरेखा तस्येव स्निग्धं तेजो यस्यास्तया । “ त्रिषु स्निग्धं तु ममृणं सान्द्रे क्लीबं तु तेजसि” इति शब्दार्णवे । सौदामन्या सुदाम्नोऽद्रिणः एकदिक् सौदामनी विद्युत् “ एकदिशा" इत्यण । तया । उर्वी मार्गभुवम् । दर्शय प्रकाशय ॥ १९ ॥ क्रीडाहेतोर्यदि च भवतो गर्जनेनोत्सुकत्वं
मन्दमन्दं स्तनय वनितानूपुरारावहृद्यम् । तासामन्तर्मणितसुभगं सम्भृतासारधार
स्तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः ॥२०॥ ३९॥ क्रीडाहेतोरिति ॥ यदि च पक्षान्तरे । “ पक्षान्तरे चेद्यदि च" इत्यमरः । भवतः तव । क्रीडाहेतोः विलासनिमित्तम् । गर्जनेन स्तनितेन । उत्सुकत्वं लाम्पट्यम् । “ इष्टार्थोद्युक्त उत्सुकः” इत्यमरः। तर्हि । वनितानूपुरारावहृद्यं वनितानां नारीणां नूपुरस्याराव इव ध्वनिरिव " आरवारावसंरावविरावाः ” इत्यमरः । हृद्यं हृदयस्य प्रियम् तथोक्तम् यथा भवति तथा । " पश्यपथ-” इत्यादिना निपातनाद्यप्रत्ययः । “ हृदयस्य हृद्याण्लास-” इति हृदादेशः । " अभीष्टेऽभीप्सितं हृद्यम्” इत्यमरः । तासां नारीणाम् । अन्तर्मणितसुभगम् अन्तर्मणितमिव अन्तरुदितकूजितमिव सुभगं मनोहरं यथा भवति तथा । मन्दमन्दं शनैःशनैः । “वीप्सायामितिद्विः" स्तनय गर्जय । ताः स्त्रियः । विक्लवाः भीरवः । “ विक्लवो विह्वल:" इत्यमरः । भवन्तीति तत इति शेषः । सम्भृतासारधारः सम्भृता
. १ मा स्म भूरित्यपि पाठः ।