________________
१११
सटीकम् । एकाकिन्यः कथमिव रतौ गन्तुमीशा निशीथे
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ॥ १८ ॥ गर्जन्तीति ॥ पिहितव्योममार्गे आच्छादिताकाशमार्गे । “ दान नुह्यपेरुपसर्गस्याकारस्य लुक् ” भवति त्वयि । उच्चैरधिकम् । गर्जति घोषयति सति । निशीथे रात्रौ । सूचिभेद्यैरतिसान्द्ररित्यर्थः । तमोभिरन्धकारैः । रुद्धालोके रुद्धदृष्टिप्रसारे । नरपतिपथे राजमार्गे । एकाकिन्यः निःसहायाः । “ एकादाकिंश्वासहाये ” इति आकिन् प्रत्ययः । " नृदुग्" इति ङी । गाढोत्कण्ठाः प्रियसमागमचिन्ताकलिताः । मदनविवशाः मन्मथवशगताः । “ विवशोरिष्टदुष्टधीः" इत्यमरः । रमण्यः नार्यः । रतौ सुरतनिमित्तम् । “ हेतौ हेत्वर्थैः सर्वाः प्रायः" इति सप्तमी। पुंसु पुरुषेषु । सङ्केतगोष्ठीम् उद्देशस्थानम् । “ सङ्केतस्तु समयः " इत्यमरः । कथमिव केन प्रकारेण । गन्तुं यातुम् । ईशाः समर्थाः समर्था न भवन्तीति यावत् ॥ १८ ॥ तस्मान्नीचैर्ध्वनिषु च भवान् डम्बरं संहराशु
प्रत्यूहानां करणमसतामादृतं नोन्नतानाम् । कर्त्तव्या ते सुजनविधुरे प्रत्युतोपक्रिया सा
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीम् ॥ १९ ॥ तस्मादिति ॥ तस्मात् कारणात् । ध्वनिषु गर्जितेषु । उौः महान् । न भव त्वं मा भूः । आडम्बरं गर्जितम् । “आडम्बरोऽस्त्री सरम्भे गर्जिते तूर्यनिस्वने” इति भास्करः । आशु शीघ्रण । संहर निवर्तय । असतां दुर्जनानाम् । प्रत्यूहानां विघ्नानाम् । “विनोन्तरायः प्रत्यूहः” इत्यमरः । करणं विधानम् । आदृतं प्रियं भवति " आतं सादरार्चितम् " इत्यमरः। उन्नतानां सज्जनानां न आदृतं न भवति । प्रत्युत किं तर्हि । सुजन भो सज्जन । आसां वनितानाम् । विधुरे