________________
पार्धाभ्युदयकाव्यं तेषां प्रकरः समूहस्तेनरुचिरं सुन्दर तस्मिन् । अनेन प्राक् पुष्पाजलिं विधायेति ध्वन्यते । व्योमरने व्योमैव रंगं नाट्यस्थानं तस्मिन्। " रङ्गं त्रपुणि रङ्गो ना रोगे नृत्तस्थले रणे” इति भास्करः । नाटयं नर्तनम् । तन्वन् कुर्वन् । तां प्रसिद्धाम् । सौम्यविद्युन्नटी सौम्या रम्या विद्युत् तडित् सैव नटी नर्तकी ताम् । तां नाटय नर्तय॥१६॥ आलोक्यैवं श्रियमथ महाकालदेवालयानां
कृत्वा सान्ध्यं समुचितविधि चान भूयो नगर्याम् । लीलां पश्यन्विहर शनकै रात्रिसम्भोगहेतो
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तम् ॥ १७ ॥ आलोक्येति ॥ अथ आनन्दनर्तनानन्तरम् । एवमुक्तप्रकारेण । महाकालदेवालयानां महाकालवनस्थचैत्यालयानाम् । श्रियं सम्पत्तिम् । आलोक्य प्रेक्ष्य । अत्र चैत्यालयनिकटदेशे । सान्ध्यं सन्ध्याकालसम्बन्धिनम् । समुचितविधिं च स्वयोग्या खयोग्यानुष्ठानमपि । कृत्वा विधाय । भूयः पश्चात् । तत्र नगयो विशालायाम् । नवं रात्रौ । “ नक्तं च रजनाविति ” इत्यमरः । रात्रिसम्भोगहेतोः रात्रौ कियमाणसम्भोगः तथोक्तः तस्य हेतुः तस्मात् । रमणवसतिं शियसदनम् । “वसतिः स्थाननिशयोनिजवेश्मनि वेश्मनि " इति नानार्थरत्नमालायाम् । गच्छन्तीनां गच्छन्तीति गच्छन्त्यस्तासाम् । शतृत्यः । “ नृदुग्" इति की । योषितां नारीणाम् । लीलां शृङ्गारादिभावम् । पश्यन् पश्यतीति पश्यन् सन् । शनकैः मन्दगर्जनादिरहितः सन्नित्यर्थः । विहर सञ्चर ॥ १७ ॥ गर्जन्त्युच्चैर्भवति पिहितव्योममार्गे रमण्यो
गाढोत्कण्ठा मदनविवशाः पुंसु सङ्केतगोष्ठीम् । १ तत्प्राप्तीच्छां ससङ्कल्पामुत्कण्ठां कवयो विदुः ।
-