________________
सटीकम् । रणात् । त्वन्निमित्तं त्वमेव निमित्तं कारणं यस्य तत् तथोक्तम् । अघनिरसनं दुःखनिवारणम् । “ अंहो दुःखव्यसनेष्वघम् ।' 'प्रत्या ख्यानं निरसनं प्रत्यादेशो निराकृतिः” इति चामरः । मा स्म भूत् मा जनिष्ट । सूर्ये अदृष्टे दिवसगणनाया अभावः। तदभावे मासपूर्तिज्ञानाभावः । तदभावे कान्तायाः संवत्सरप्रमितस्य विरहदुःखस्य निवारणम् । त्वत्सम्पर्कादि नाभावि न भवतु । किन्तु मासपूरणादेव जायतामिति तात्पर्यम् । किन्तु। तस्मिन्काले प्रागुक्ते सूर्योदयकाले। खण्डितानां योषिताम् नायिकाविशेषाणाम् । “ ज्ञातेऽन्यासंगविकृतेप्याकषायेति ” दशरूपके । नयनसलिलम् अस्रजलम् । प्रणयिभिः प्रियतमैः । शान्ति शमनम् । नेयं नेतव्यम् । “ णीञ् धातुः द्विकर्मकः” अतः कारणद्वयात् । भानोरकस्य । वर्त्म मार्गम् । आशु शीघ्रम् । त्यज मुञ्च । तस्य रोधको मा भूदित्यर्थः ॥ २३ ॥ अन्यच्चान्यव्यसनविधुरेणाऽऽर्य मित्रेण भाव्यं
तन्मा भानोः प्रियकमलिनीसंस्तवं त्वं निरुन्धाः। प्रालेयास्रं कमलवदनात्सोपि हर्तु नलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ २४ ॥४१॥ अन्यच्चेति ॥ अन्यच्च तन्मार्गरोधे दूषणान्तरमित्यर्थः । आर्य भो पूज्य । मित्रेण भानुना । सुहृदा वा । "सुहृदादित्यशास्त्रग्रन्थनिर्देशे षु मित्रः ” इति नानार्थरत्नमालायाम् । अन्यव्यसनविधुरेण अन्यदुःखदुःखितेन । भाव्यम् अवश्यम् । “ ओरावश्यके ” इति ध्यण् । तत् तस्मात् । भानोः अरुणस्य । प्रियकमलिनीसंस्तवं प्रिया चासौ कमलिनी च तस्याः नलिन्याः संस्तवं परिचयम् । “ संस्तवः स्यात्परिचयः” इत्यमरः । त्वं भवान् । मा निरुन्धाः मा स्म निवारयस्व । सोपि इनः । नलिन्याः नलानि अम्बुजानि अस्याः सन्तीति नलिनी पद्मिनी। “तृणेऽम्बुजे नलं ना तु राज्ञि काले तु न स्त्रियाम्" इति श