________________
सटीकम् । भूय इति ॥ भूयश्च पश्चात् । तत्र जिनालये । त्वत्स्तनितचकिताः तव गर्जितेन कम्पिताः । किंस्विदिति किमिदमिति । आत्तशाः आत्ता गृहीता शङ्का याभिस्ताः । किश्चित् ईषत् । तिर्यग्वलितवदनाः तिर्यग्वलितं वक्रितं वदनं यासां ताः । बद्धोत्कम्पस्तनतटलुठलोलहाराः बद्धो रचित उत्कम्पो ययोस्तौ च तो स्तनौ च तयोस्तटं तस्मिन् लुठन विमृशन् लोलश्चलो हारो यासां ताः । " लोलवलसतृष्णयोः" इत्यमरः । सलीलाः लीलया सह वर्तन्त इति तथोतास्तान् । ताः पण्याङ्गनाः । त्वयि भवति । मधुकरश्रेणिदीर्घान् मधुकराणां भृङ्गाणां श्रेणिः मालेव दीर्घास्तान्। कटाक्षान् अपाङ्गान्। " अपाङ्गो नेत्रयोरन्ते कटाक्षोपाङ्गदर्शने " इत्यमरः । आमोक्ष्यन्ति आवर्जिष्यन्ति । परैरुपकृताः सत्यः सद्यः प्रत्युपकुर्वन्तीति भावः ॥ १२॥ इत्थं भक्तिप्रकटनपटुस्तत्र चातोद्यगोष्ठी
कृत्वा मन्द्रस्तनितमुखरध्वानमाविर्वितन्वन् । वन्दारूणां शृणु सुनिभृतस्तोत्रपाठं मुनीनां
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः ॥ १३॥
इत्थमिति ॥ इत्थम् अनेन प्रकारेण । तत्र चैत्यालये । भक्तिप्रकटनपटुः भक्तेर्गुणानुरागस्य प्रकटने प्रकाशे पटुश्चतुरः । मन्द्रस्तनितमुखध्वानं मन्द्रं स्तनितमेव मुखस्य मुरजस्य ध्वानं ध्वनिम् । आविर्वितन्वन् प्रादुःकुर्वन् । “ प्रकाशे प्रादुराविः स्यात् " इत्यमरः । आतोद्यगोष्टी च वाद्यगोष्ठीमपि । कृत्वा विधाय । पश्चात् वाद्यगोष्टयनन्तरम् । उच्चैः महत् भुजतरुवनं भुजतरूणां वृक्षविशेषाणां वनं तदुपवनम् । मण्डलेन मण्डलाकारेण । अभिलीनः अभितो व्याप्तः सन् । कर्तरिक्तः । वन्दारूणां वन्दनशीलानाम् । “वन्दारुः"