________________
१०६
पार्धाभ्युदयकाव्यं सङ्खयान्तः " इति डप्रत्ययः । “डित्यन्त्याजादेः " इत्यन्यादेर्लुक् । तैः सिक्काः । त्वयेति शेषः । विलोलाः चश्वलाः । उत्पश्याः उत्पश्यन्तीति तथोक्ताः । “ पाघ्राध्मा-" इति पश्यादेशः । ताः पण्ययोषितः गणिकाः । पश्य अवलोकय ॥१०॥
त्वां तत्राहद्भवनवलभेरूलभागे निषण्णं ___ सन्ध्यारागच्छुरितवपुषं विधुदुद्भासिदण्डम् । द्रक्ष्यन्ते ता विरचितमिव व्योम्नि लीलावितानं
वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् ॥११॥ त्वामिति ॥ तत्र जिनालये । त्वत्तः त्वत्सकाशात् । नखपदसुखान नखपदेषु सुरतजनितनखक्षतेषु सुखान् सुखकरान् । “ सुखहेतौ सुखकरः" इति शब्दार्णवे। वर्षाग्रबिन्दून् वृष्टिप्रथमजलकणान् । प्राप्य लब्ध्वा । एताः वेश्याः पण्यस्त्रियः। अर्हद्भवनवलभेः जिनालयस्य वलभेः वक्रदारुणः । “ गोपानसी तु वलभी छादने वक्रदारुणि " इत्यमरः । ऊर्श्वभागे उपरिभागे । निषण्णम् उपविष्टम् । सन्ध्यारागच्छुरितवपुषं सन्ध्याया रागेण छुरितं मिश्रितं वपुः शरीरं यस्य तम् । विद्युद्भासिदण्डं विद्युदेवोद्भासी प्रभास्वरो दण्डो यस्य तम् । व्योनि आकाशे । विरचितं निर्मितम् । लीलावितानमिव विलासदूष्यमिव । “ अस्त्री वितानमुल्लोचो दूष्याचं वस्रवेश्मनि " इत्यमरः । द्रक्ष्यन्ति प्रेक्षिष्यन्ति॥ ११॥ भूयश्च त्वत्स्तनितचकिताः किंस्विदित्यात्तशङ्काः
किञ्चित्तिर्यग्वलितवदनास्तत्र पण्याङ्गनास्ताः। बद्धोत्कम्पस्तनतटलुठल्लोलहाराः सलीला
___ नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥१२॥३७॥ .. १ खित्प्रश्ने च वितर्केचेत्यमरः ।