________________
सटीकम् । .
१०५ पादन्यासैः चरणक्षेपैः कणिता रणिता रसना काञ्चीदाम यासां ताः । “ स्त्रीकट्यां मेखला काञ्ची सप्तकी रसना तथा ” इत्यमरः । कणन्तैरेतत्कर्मत्वात् “ गत्यकर्मण्याधारे” इति कर्तरि क्तः। सुकण्ठीः चतुरगणिकाः प्रौढवेश्याः । त्वं भवान् । लीलावधूतैः विलासावकीर्णैः । “ हेला लीलेत्यमी हावाः ” इत्यमरः । शीकरैः अम्बुकणैः । सन्नयेः लालयेः ॥९॥ तास्तत्राहर्मणिमयरणन्नूपुराः पण्ययोषाः
प्रोगायन्तीः सुललितपदन्यासमुद्भूविलासाः। पश्योत्पश्या नवजलकणद्वित्रसिक्ता विलोला
रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ॥१०॥ ता इति ॥ तत्र जिनालये । अहः त्वद्गमनसमयो दिवा चेदित्यध्याह्रियते । मणिमयरणनूपुराः रणन्तश्च ते नूपुराश्च तथोक्ताः " मजीरो नूपुरोऽस्त्रियाम् ” इत्यमरः । मणिमया रणनूपुराः यासां ताः । सुललितपदन्यासं पदानां शब्दरूपाणां चरणानां वा । “पदं व्याजाङ्कितच्चिह्नत्राणलक्ष्मसु” इति भास्करः । न्यासः रचनाविशेषः तथोक्तः । सुललितः पदन्यासो यस्मिन्कर्मणि तत् । प्रोद्गायन्तीः गानं कुर्वन्तीः । उद्भूविलासाः ध्रुवोर्विलासः भ्रूविलासः उद्गतो भ्रूविलासो यासां ताः । रत्नच्छायाखचितवलिभिः रत्नानां कङ्कणमणीनां छायया शुत्या खचिता मिश्रिता वलयश्चामरदण्डा येषां तैः । " वलिश्चामरदण्डे चर्मणि" इति विश्वः । चामरैः प्रकीर्णकैः । " चामरं तु प्रकीर्णकम् ” इत्यमरः । क्लान्तहस्ताः श्रान्तपाणयः । एतेन देशिकनर्तनं दर्शितम् । तदुक्तं नृत्यसर्वखे- “ खड्गकन्दुकवस्त्रादिदण्डिकाचामरब्रजः । वीणादि धृत्वा यत्कुर्यान्नृत्यं तदेशिक भवेत् ” इति । नवजलकणद्वित्रसिक्ताः नवीनसलिलशीकराणां द्वौ वा त्रयो वा द्वित्राः “सुज्वार्थः” इति समासः । “प्रमाणे