________________
१०८
पार्श्वाभ्युदय काव्यं
इत्यारुः । मुनीनां यतीनाम् । सुनिभृतस्तोत्रपाठ सुनिश्चलस्तुतिपठनम् । शृणु श्रुतिविषयं विधेहि ॥ १३ ॥
तस्मिन्काले जलधरपथे स्वं वितत्य प्रहर्षा - द्विद्युद्दीपैर्जिनमुपहरन्भक्तिभारावनम्रः । द्रष्टासि त्वं दधदिव मुहुः स्वामिसेवानुरागं
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ॥ १४ ॥
तस्मिन्निति । तस्मिन्काले स्तोत्र श्रवणसमये । जलधरपथे आकाशे । प्रहर्षात् सन्तोषात् । स्वं स्वरूपम् । वितत्य विस्तृत्य । भक्तिभासवनम्रः भक्तत्यतिशयेनावनम्रः नमनशीलः । “नम्कम्यजस्कम्प –” इति रः । विद्युद्दीपैः विद्युत एव दीपास्तैः । जिनं जिनेश्वरम् । उपहरन् । `पूजयन् । प्रतिनवजपापुष्परक्तं प्रत्यग्रजपाकुसूमारुणम् । सान्ध्यं - संध्यायां भवं सान्ध्यम् । भर्तुः तेजो दीप्तिम् । " तेजः प्रभावे दीप्तौ च बले शुक्लेप्यतस्त्रिषु ” इत्यमरः । दधानः वहन् । मुहुः पुनः । स्वामिसेवानुरागं स्वामिनः जिनेश्वरस्य सेवानुरागं प्रीतिम् । दधदिव दधातीति दधत् दधान इव । त्वं भवान् । द्रष्टासि द्रक्षिष्यसे । कर्मणि लुट् ॥ १४ ॥
भक्तिं कुर्वशतमख इवाविर्भवद्दिव्यरूप
श्चित्रां वृत्तिं स्वरसरचितां शैखिनीं वा मनोज्ञाम् । कण्ठच्छायां स्ववपुषि वहन्मास्मयन्साधुवादं नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छाम् ॥ १५ ॥
भक्तिमिति । शतमख इव देवेन्द्र इव । आविर्भवद्दिव्यरूपः दि - वि भवं दिव्यं तच्च तत् रूपं च तथोक्तम् आविर्भवतीति आविर्भवत् दिव्यरूपं यस्य सः तथोक्तः । भक्तिं गुणानुरागम् । कुर्वन् । स्वरसर