SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सटीकम् । १०३ मानेवधारणे" इत्यमरः। ते स्थातव्यम् । वानाकक्तध्यप् प्राप्तेः कर्तुरिति विकल्पिता षष्ठी । त्वया स्थातव्यमित्यर्थः ॥६॥ विद्यासिद्धि प्रति नियमिनो धौतवस्त्रस्य मन्त्रै ईकुंकारैः पितृवनमभिधाम्यतः स्वैर्विशब्दैः। पूजामाप्तास्यनघमधुरैः साधकौघस्य तस्मिन् कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीयाम् ॥ ७॥ विद्यासिद्धिमिति ॥ तस्मिन् महाकाले । विद्यासिद्धि मन्त्रादिसाधनम् । प्रति उद्दिश्य नियमिनः नियमोऽस्यास्तीति तस्य । “ नियमो व्रतम् ” इत्यमरः । धौतवस्त्रस्य धौतं वस्त्रं यस्य तस्य । हुँफुकारैः एवंभूतबीजाक्षरयुतैः मत्रैः । पितृवनं श्मशानम् । अभिभ्राम्यतः परितश्चलतः । शूलिनः त्रिशूलवतः । “ अस्त्री शूलं रुगायुधम् " इत्यमरः । साधकौघस्य मत्रसाधकसमुदायस्य कापालिकनिवहस्येत्यर्थः । अनघमधुरैः निरवद्यप्रियैः । स्वैः स्वकीयैः । विशब्दैः ध्वनिभिः । “क्षुब्धवान्तध्वान्त-" इत्यदिना ध्वनौ विशब्देति क्तान्ते साधुः । सन्ध्याबलिपटहतां सन्ध्यायां यो भूतबलिस्तैर्दीयते तस्य पटहतां भेरीनिनादरूपम् । कुर्वन् सम्पादयन् । श्लाघनीयां प्रशस्याम् । पूजां सम्मानम् । आप्तासि लब्धासि । “ आप् व्याप्तौ” लुट् मध्यमपुरुषः ॥७॥ तत्रास्त्यन्तर्वणमपभियामासितं सन्मुनीनां जैनं वेश्म स्तुतिकलकलादात्ततन्नामरूढि । तं सेवित्वा ननितपटहैरुञ्चरद्भिस्त्वमुच्चै रामन्द्राणां फलमविकलं लप्स्यते गर्जितानाम् ॥ ८॥३६॥ तत्रेति ॥ तत्र अन्तर्वणं महाकालवनस्य मध्यप्रदेशे । वनस्यान्तः
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy