________________
१०२
पार्श्वाभ्युदयकाव्यं
इत्यमरः । रात्रेः निशायाः । प्रेतगोष्ठीति परेतगोष्ठीति बुद्धेति शेषः । तिष्ठ आस्ख । निशाया अतिभयङ्करत्वात् तदा अवसन् दिवस एव स्थित्वा पश्येति भावः ॥ ५ ॥
तस्माज्जीर्णद्रुमशतबृहत्कोटरान्तःप्रबद्धध्वानोलूक प्रतिभयरवे प्रेतशोफातिरौद्रे । तस्योपान्ते परिणतशिवारब्धसांराविणोग्रे स्थातव्यं ते नयनविषयं यावदत्येति भानुः ॥ ६ ॥
96
तस्मादिति ॥ तस्मात् कारणात् । जीर्णद्रुमशतबृहत्कोटरान्तःप्रबद्धधानोलकप्रतिभयरवे जीर्णानां द्रुमाणां वृक्षाणाम् अनेकानां बृहतः पृथुलाः कोटराः निष्कुहास्तेषामन्तर्मध्यं तत्र प्रबद्धो ध्वानो येषामुलूकानां तेभ्यः प्रतिभयो भयङ्करो वो ध्वनिर्यस्मिन् तस्मि - न् । “ निष्कुहः कोटरं वा ना । उलूकस्तु वायसारातिपेचकौ ।' भयङ्करं प्रतिभयम् ” इत्यमरः । प्रेतशोफातिरौद्रे प्रेतानां शवानां शोफेन श्वयथुना " शोफस्तु श्वयथुः शोथ: " इत्यमरः । अति रौद्रे " रौद्रं तूत्रम् ” इत्यमरः । परिणतशिवारब्धसांराविणोत्रे शिवाभिः क्रोष्ट्रीभिः आबद्धं कृतं सांराविणं ध्वनिः । सपूर्वस्य रुशब्दस्य इति धातोः व्याप्तौ भावे नजिनिति जिन् || “नजिनोऽण्" इत्यण् । " णित्यस्या ” इत्यात् ।। " आरेचोक्ष्वादेः " इत्यारैच् । " शिवा हरीतकी क्रोष्ट्री शमी नद्यामलक्युमा । शिवो घोरे पद्मरागे हरकीलं शिवं जले " इति वैजयन्ती । तस्य महाकालवनस्य । उपान्ते समीपे प्रेतवने । यावत् यावत्कालेन । भानुः सूर्यः । नयनविषयं दृष्टिगोचरम् । अत्येति अतिक्रमति अस्तं गच्छतीत्यर्थः । यत्तदोर्नि त्यसम्बन्धात् । तावत् आसमयात् । यावत्तावच्च साकल्येऽवधौ
66
१ परिणतं प्रवृद्धं वारब्धसांराविणं तेन उग्रं रौद्रं तस्मिन् ।
•