SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सटीकम् । १०१ 1 श्च तस्मिन् । नानास्वादौ नानाविधः स्वादुर्यस्य तस्मिन् । नानारस इत्यर्थः । पविते पवित्रीभूते । पूङ् पवने । “शो: " इति द्विविकरूपः । पूतं पवितमिति द्विधा सिद्धमित्यर्थः । सति योग्ये । पयसि सलिले । पीतिनः पीतमनेन पूर्व पीती पीतवानित्यर्थः । तस्यपीतिनस्तव । तिनोड्योः सुबिति पयसः सप्तमी । तोयक्रीडानिरतयुवतिस्नानतिक्तैः तोयक्रीडासु निरतानाम् आसक्तानां युवतीनां स्नानं स्नानीयं चन्दनादिद्रव्यम् । " स्नानीयेभिषवे स्नानम् " इति यादवः । तेन तिक्तैः सुरभिभिः । " कटुतिक्तकषायाद्याः सुरभीति प्रकीर्तिताः " इति हलायुधः । मरुद्भिः पवनैः । व्याधूतैः आकम्पितैः । गन्धवत्याः सरितः । तैर्वारिभिः सलिलैः । तद्विनोदः जलक्रीडाविनोदः । कथमिव भवेत् किंवत्स्यात् । पश्येति शेषः ॥४॥ 1 द्रष्टुं वाञ्छा यदि च भवति प्रेतगोष्ठीं विचित्रां तिष्ठातिष्ठन्नुपरिनिपतद्द्वृधबद्धान्धकारे । दोषामन्येप्यहनि नितरां प्रेतगोष्ठीतिरात्रे - रप्यन्यस्मिञ्जलधर महाकालमासाद्य काले ॥ ५॥ 66 " द्रष्टुमिति ॥ हे जलधर हे मेघ । विचित्रां विविधाम् । प्रेतगोष्ठीं परेतगोष्ठीम् । परेतप्रेतसंस्थिताः । समज्यापरिषद्रोष्ठी " इत्युभयत्राप्यमरः । द्रष्टुम् अवलोकितुम् । भवतः तव । वाच्छा अभिलाषः । यदि च भवति चेत् तर्हि । महाकालं महाकालाभिधानम् तत्पुरीसमीपगतमरण्यम् आसाद्य गत्वा । अन्यस्मिन्नपि काले अपरस्मिन्नपि समये । अतिष्ठन् अवसन् सन् । उपरिनिपतद्धवद्धान्धकारे उपरि निपतन्ति तथोक्ताः ते च ते गृध्राश्च तैर्बद्धो रचितोन्धकारो यस्मिन् तस्मिन् । नितराम् अत्यन्तम् । दोषामन्येपि रात्रिसदृशेपि । “ कर्तुस्सखः” इति खत्यः । शित्त्वात् श्यः । अनव्ययस्येति वचनान्न ममूहस्वौ । अहनि दिवसे । “घस्रो दिनाहनी "
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy