SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०० पार्श्वभ्युदयकाव्यं तं सेवेथाः कृतपरिगतिाकिरन्पुष्पवर्ष ___ स्तोत्रीकुर्वन्स्तनितमभितो दुन्दुभिस्वानमन्द्रम् । वातोद्भूतैरनिभृततरैरुत्तरङ्गैः पयोभि धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्याः ॥ ३ ॥ तमिति ॥ कुवलयरजोगन्धिभिः उत्पलपरागगन्धवद्भिः । “वोपमानात्” इति इप्रत्ययः । वातोद्भूतैः वायुना कम्पितैः । अनिभृततरैः अदृढतरैः । उत्तरङ्गैः उन्नतस्तरङ्गो येषां तैः । गन्धवत्याः गन्धवतीनामनद्याः । पयोभिः वारिभिः । धूतोद्यानं धूतमुद्यानं यथा भवति तथा । कृतपरिगतिः परितो गमनं परिगतिः । प्रदक्षिणं कृता परिगतिर्येन सः । पुष्पवर्ष पुष्पाणां वर्ष पुष्पवद्वर्ष वा पुष्पवृष्टिम् । व्याकिरन् प्रकिरन् । अभितः सर्वतः । “ समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः” इत्यमरः । दुन्दुभिस्वानमन्द्रं दुन्दुभीनां भेरीणां खान इव मन्द्रं गम्भीरम् । “भेरी स्त्री दुन्दुभिः पुमान्" इत्यमरः । स्तनितं गर्जितम् । स्तोत्रीकुर्वन् प्रागस्तोत्रम् इदानीं स्तोत्रं करोतीति स्तोत्रीकुर्वन् स्तुतिं दधानः सन् । तम् अर्हतम् । सेवेथाः भजेथाः॥३॥ सत्यन्यस्मिन्सुरभिशिशिरस्वच्छतोयह्रदादौ नानास्वादौ पयसि पविते पीतिनस्तद्विनोदः। व्याधूतैस्तैः कथमिव भवेद्वारिभिर्गन्धवत्या - स्तोयक्रीडानिरतयुवतिखानतिक्तैर्मरुद्भिः ॥ ४ ॥ ३५ ॥ सतीति ॥ अन्यस्मिन्नपरस्मिन् । सुरभिशिशिरस्वच्छतोयहृदादौ सुरभि सुगन्धि शिशिरं शीतलं स्वच्छं निर्मलं सुरभि च तत् शिशिरं च सुरभिशिशिरं तच्च तत् स्वच्छं च सुरभिशिशिरस्वच्छं खंजकुंडादिवदन्यतरप्राधान्येन विशेषणं व्यभिचार्ये कार्यमिति कर्मधारयत्वं । तोयं यस्य स तथोक्तः ह्रद आदिर्यस्य स हृदादिः स चासौ ह्रदादि
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy