________________
सटीकम् । पूर्वमिति ॥ पूर्व तावत् प्रथमं तावत् । तावच्छब्दो विधिवाचकः । “ यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे" इत्यभिधानात् । कर्मारीणां कर्माण्यष्टविधानि तान्येवारयः शत्रवस्तेषाम् । मोहशत्रोः मोहापरनामकं कर्मैव शत्रुस्तस्य । निहन्तुः विनाशयितुः । विजितमदनस्य विजितो मदनो मन्मथो येन तस्य । चण्डेश्वरस्य ईष्टे जगदुद्धरणे समर्थो भवतीतीश्वरः नायकः चंडः कार्यातीतकः तीक्ष्ण इत्यर्थः “चंडस्त्वत्यंतकोपनः" इत्यमरः । चण्डश्वासावीश्वरश्चेति कर्मधारयः । अथवा चण्डानाम् उग्रतपोदीप्ततपस्तप्ततपोघोरतपोमहातपःप्रभृतिनिरुपमतपःशूराणां महामुनीनामीश्वरः प्रभुस्तस्य । त्रिभुवनगुरोः त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । “दिगधीति” सद्धा तद्धितोत्तरपदसमासः । “पात्रेसमितादयः” इति स्त्रीत्वनिषेधः । त्रिभुवनगुरोत्रिलोकनाथस्य । अर्हतः सहजाद्यतिशयविशेषमनन्तचतुटयं च प्राप्तुमर्हतीत्यर्हन् शतृत्यस्तस्य जिनेन्द्रस्य । धवलितनभोभागं धवलितो नभस आकाशस्य भागो येन तत् । अभ्रंलिहाग्रम् अभ्रंलिहतीत्यभ्रंलिहम्। “वहाभ्राल्लिहः" इति खच् । अभ्रंलिहमग्रं यस्य तत् । कैलासाद्रिश्रियम् अष्टापदगिरिसम्पदम् । हसदिव उपहासं कुर्वदिव। धाम स्थानम् । चैत्यालयमित्यर्थः । पुण्यं सुकृतम् । " स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ” इत्यमरः । संचिचीर्षः सञ्चेतुमिच्छुस्तथोक्तः । सम्पादनरतः सन् । यायाः गच्छेः । अत्रार्हतः कर्मारीणां निहन्तुरिति सामान्यविशेषणेन सिद्धमपि मोहाक्रान्तेश्वराद्यविषयं मोहशत्रुनिहन्तृत्वं पराजितेश्वरादेर्मदनस्य विजयमपि विशेषेण प्रकटीकर्तु पुनर्विशेषणद्वयमाहेति भावः । कर्मारीणां मोहशत्रोश्च निहन्तुर्विजितमदनस्यार्हतः चण्डेश्वरत्वं न दुर्घटम् । तदुक्तं समन्तभद्रस्वामिभिः- “स्वदोषमूलं स्वसमाधितेजसां निनाय यो निर्दयभस्मसाक्रियाम्। जगाद तत्त्वं जगतेऽर्थिनेजसा बभूव च ब्रह्मपदामृतेश्वरः ।” “यो न च याति विकारं युवतिजनकटाक्षबाणविद्धोऽपि।स त्वेव शूरशूरो रणशूरो नो भवेच्छूरः" इति ॥ २ ॥