________________
सटीकम् ।
९३. यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥११२॥३१॥ कल्लोलान्तरिति ॥ यत्र पुर्याम् । कल्लोलान्तर्वलनशिशिरः तरङ्गमध्ये वलनेन भ्रमणेन शिशिरः शीतलः । शीकरासारवाही शीकराणामासारं वेगवद्वर्ष वहतीत्येवं शीलस्तथोक्तः । धूतोद्यानः कम्पितो द्यानवनः । मदमधुलिहां मत्तमधुकराणाम् । सिन्जितानि अव्यक्तध्वनीन् । व्यनयन् प्रकाशयन् । शिप्रावातः शिप्रानाम तत्पुरि काचित् समीपगता नदी तस्याः वातः । प्रार्थनाचाटुकारः प्रार्थना सुरतयाचना तत्र चाटूनि प्रियवचनानि करोतीति तथोक्तः । पुनः सुरतार्थ प्रियवचनयोजक इत्यर्थः । “ कर्मणोऽण् ” इत्यण् त्यः । प्रियतम इव वल्लभ इव । स्त्रीणाम् अङ्गनानाम् । अङ्गानुकूलःशरीरस्य सुखस्पर्शः । अन्यत्र गाढालिङ्गनस्पर्शसुखप्रद इत्यर्थः । सुरतग्लानिं प्राक्तननिधुवनखेदम् । हरति नुदति ॥ ११२ ॥ तीक्ष्णस्यारेस्स किल कलहे युद्धशौण्डो मुरुण्डः
प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जहे हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञो .
हासालापैरिति रमयति स्त्रीजनो यत्र बालान् ॥ ११३ ॥ तीक्ष्णस्येति ॥ अत्र दृश्यमानप्रदेशे । युद्धशौण्डः युद्धे मत्तः । “ मत्से शौण्डोत्कटक्षीबाः " इत्यमरः । मुरुण्डः सः वत्सराजः । 'वंशराजः' इत्यपि पाठान्तरम् । उदयनराज इत्यर्थः । कलहे रणे । प्रद्योतस्य प्रद्योतनाम्नः उज्जयिनीपतेः । तीक्ष्णस्य क्रूरस्य । अरेः शत्रोः । प्रियदुहितरं वासवदत्ताभिधां प्रियपुत्रीम् । जहे किल जहार किल । अत्र एतत्प्रदेशे । तस्यैव राज्ञः वत्सराजस्य । हैमं सुवर्ण
१ नरेन्द्र इति पाठान्तरं।