________________
९२
पार्श्वाभ्युदय काव्यं
मरः । दिवः स्वर्गस्य खण्डमिव भागमिवेत्युत्प्रेक्षा । प्रतिभासमानामिति शेषः । भुवनमहितां लोकपूजिताम् । उत्तमर्द्धिम् उत्तमा ऋद्धिरैश्वर्य यस्यास्ताम् । लक्ष्म्याः रमायाः । शश्वन्निवसनभुवम् अनवरत - निवासभूमिम् । सम्पदां सम्पत्तीनाम् । एकसूतिं मुख्यप्रसवस्थानम् । तां पुरीम् विशालाख्यनगरीम् । व्यावर्ण्य वर्णयित्वा । अलं पर्याप्तम् । अवाग्गोचरमहिमत्वात् निःशेषं वर्णयितुं न शक्येत्यर्थः ॥ ११० ॥
यस्यामुच्चैरुपवनतरून्नामयन्मातरिश्वा
वीचिक्षोभादधिकशिशिरः सञ्चरत्यप्कणौघैः ।
दीर्घीकुर्वन्पटुमदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ॥ १११ ॥
यस्यामिति । यस्यां पुर्य्याम् । उचैः उदग्रान् । उपवनतरून् आरामद्रुमान् । मानयन् संश्लेषं वितन्वन् । आनमन्निति इति पाठे समंतात्संपतन उच्चैर्नामयन् प्रह्वीकुर्वन् । वीचिक्षोभात् तरङ्गकम्पनात् । अधिकशिशिरः अतीवशीतलः । सारसानां पक्षिविशेषाणाम् । “ सारसी मैथुना कामी गोमी पुष्कहयः " इति यादवः । अथवा सारसानां हंसानाम् । “ चक्रसारसयोर्हस: " इति शब्दार्णवे । पटुमदकलं पटु प्रस्फुटं मदेनाव्यक्तमधुरम् । “ध्वनौ तु मधुरास्फुटे कल: " इत्यमरः । अष्कणौघैः जलबिन्दुनिचयैः । दीर्घीकुर्वन् सम्भावयन् । प्रत्यूषेषु प्रभातेषु । “ प्रत्यूषोऽहर्मुखम् ” इत्यमरः । स्फुटितकमलामोदमैत्रीकषायः स्फुटितानां विकसितानां कमलानाम् आमोदेन परिमलेन मैत्र्या संसर्गेण कषायः सुरभिः । " रागद्रव्ये कषायोsस्त्री निर्यासे रसे " इति यादवः । " मातरिश्वा सदागतिः " इत्यमरः । सञ्चरति विहरति ॥ १११ ॥
कल्लोलान्तर्वलनशिशिरः शीकरासारवाही धूतोद्यानो मदमधुलिहां व्यञ्जयन्सिञ्जितानि ।