________________
•९४
पार्थाभ्युदयकाव्यं मयम् । “ हेमादिभ्योऽञ्” इति अञ् त्यः । तालद्रुमवनं तालवृक्षारण्यम् । अभूत् अभवत् । इति एवमुपाख्यानेन । यत्र उज्जयिनी नगर्याम् । स्त्रीजनः । बालान् अर्भकान्। “बालस्तु स्यान्माणवकः" इत्यमरः । हासालापैः हास्यवचनैः । रमयति क्रीडयति ॥११३ ॥ शैलं शैलप्रतिमवपुषा पीडयन्नुन्मदिष्णू
निघ्नन्व्यालान्कुपितसमवर्तीव मेघं मरुद्धत् । अत्रोद्धान्तः किल नलगिरिस्तम्भमुत्पाट्य दर्पा __दित्यागन्तूत्रमयति जनों यत्र बन्धूनभिज्ञः ॥११४ ॥३२॥
शैलमिति ॥ अत्र स्थले । शैलप्रतिमवपुषा क्ष्माभृत्सदृशशरीरेण । बलवहेहेनेत्यर्थः । शैलं गिरिम् । पीडयन् मर्दयन् । उन्मदिष्णून उन्मदितुमिच्छव उन्मदिष्णवस्तान् । अतिमत्तानित्यर्थः । “ उन्मदिष्णुस्तून्मदिता" इत्यमरः । व्यालान् दुष्टमृगान् । “व्यालः सर्प दुष्टगजे श्वापदे ना शठे त्रिषु ” इति नानार्थरत्नमालायाम् । कुपितसमवर्तीव कुपितान्तकवत् । “समवर्ती परेतराट् ” इत्यमरः । निन्नन् निहिंसन् । मेघ वारिवाहम् । मरुद्वत् वायुरिव नलगिरिस्तंभ नलगिरिनामशिलास्तंभं । दर्पात् बलवत्त्वाहंकारात् । उत्पाट्य आमूलादुद्धृदत्य । उद्भ्रांतः किल उद्ममति स्म किल । इति इत्थंभूताभिरुदयनकथाभिरिति शेषः । यत्र विशालापुर्याम् । अभिज्ञः कथाकोविदः । जनो लोकः । आगन्तून् आगम्यते हठादनेनागन्तुः । " स्यादावेशिक आगन्तुः” इत्यमरः । देशान्तरादागतान् । बन्धून् बान्धवान् । रमयति विनोदयति ॥ ११४ ॥ यस्यां बिभ्रत्यवनिपपथा रत्नराशीनुदग्राञ्
शूर्पोन्मेयाञ्जलधय इवापीततोया युगान्ते । हारांस्तारांस्तरलघुटिकान्कोटिशः शङ्खशुक्तीः
शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् ॥११५ ॥