________________
अन्यदाऽढें व्रजन् सोमो, युध्यमानौ पदातिकौ । दृष्ट्वा तत्रैव सोऽतिष्ठद्राजाज्ञाभङ्गभीतितः ॥२१॥ विना सोमं जनो नाऽन्यः, समीपमगमत्तयोः । ग्रीष्मोष्मदुस्सहं वह्नि, को वाऽऽलिङ्गितुमिच्छति ? ॥२२॥ ततस्तण्डाधिपो वीक्ष्य, तौ निघ्नन्तौ परस्परम् । निनाय मन्त्रिणः पार्श्वे, सूनायामिव बोत्कटौ ॥२३।। अथ तौ मन्त्र्यपि प्रेक्ष्य, भ्रकुटीभङ्गभीषणः । किमर्थं युवयोः पत्ती !, कलहोऽत्राऽब्रवीदिति ? ॥२४।। इत्युक्ते मन्त्रिणा तेन, प्राहैको विहिताऽञ्जलिः । विना कार्यमिषादेषोऽहन्मां गच्छन्तमध्वनि ॥२५।। अथोचेऽन्योऽपि नो मन्त्रिन् !, प्रागेनमहमाहनम् । किन्तु मामयमित्यर्थे, साक्षी सोमो वणिक्सुतः ॥२६।। एताभ्यामिति विज्ञप्ते, मन्त्री न्यायपरीक्षकः । सोमस्याऽऽकारणायाऽथ, प्राहिणोत् स्वपदातिकान् ॥२७॥ यमदूतानिव प्रेक्ष्याऽऽगच्छतस्तान् गृहानभि । सोमोऽप्यकथयत् पित्रे, वृत्तान्तं कलहस्य तम् ।।२८।। तच्छ्रुत्वाऽथ धनस्तस्मिन्, गताऽन्योपायविह्वलः । तमेव श्रेष्ठिनं गत्वाऽपृच्छद्वित्तैः स तद्धियम् ।।२९।। द्रव्यमादाय स श्रेष्ठी, प्राह गत्वा सुतं कुरु । ग्रहिलमिति स श्रुत्वा, गृहं गत्वाऽवदत् सुतम् ॥३०॥ द्राग् मुञ्चाऽधस्तनं वासः, स्वकेशान् मुत्कलीकुरु । ऊर्ध्वबाहुस्तथा नृत्यन्, भक्ष्वैतान् कलशानपि ॥३१॥ इत्थं कृत्रिमग्राहिल्यं, स्वस्य स्वीकृत्य सत्वरम् । उद्दण्डं दण्डमुद्यम्य, धाव धाव च मामनु ॥३२॥ [युग्मम्]
भयदाने सोमकथा ।
३५७