SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ततः पितृवचः सोमः, प्रतिपद्य यथोदितम् । भूतग्रस्त इवोत्थायाऽधावीदाशु धनं प्रति ||३३|| अग्रतो नश्यता पित्रा, प्रोचिरे ते पदातयः । भो ! भोस्त्रायध्वमस्मान्मां, भूतग्रस्तात्प्रणिघ्नतः ॥३४॥ दृष्ट्वा सोमं तथाभूतं, स्मित्वोचुस्ते परस्परम् । एनं ग्रहिलमानेतुमस्मान्मन्त्री समादिशत् ||३५|| स्याद्यादृक्तादृग्वाऽस्माभिर्नेयोऽयं मन्त्रिसन्निधौ । इति विचिन्त्य पादातैर्धृत्वाऽसावग्रतः कृतः ॥३६॥ परिष्वज्य जनान् नृत्यन्, क्षिपन् धूलीरितस्ततः । बलादानीय सोमस्तैः, सचिवाय समर्पितः ॥३७॥ मन्त्र्यपि प्रेक्ष्य तच्चेष्टां, ग्राहिल्यात् हास्यदायिनीम् । व्यसृजत्तं तथायोग्यं, न्यायं कृत्वेतरावपि ॥३८॥ अथ प्राप्य छलं सोमो, दोषेणाऽग्राहि सत्यतः । तत्प्रभावादसौ चेष्टां, विचित्रामकरोदिति ॥३९॥ कदाचिद्भजते नाग्न्यं, नेपथ्यं च कदाचन । कदाचिद्भाषते शून्यं, प्रशस्तं च कदाचन ||४०|| तं तथा च धनो दृष्ट्वा, शोकशङ्कुसमाकुलः । दध्यावित्यभवत् सत्यं, लभ्ययोग्यादृणेऽपतत् ॥४१॥ उपयाचितं देवानां, मानयामास सुन्दरी । विना पुत्रं स्त्रियः प्रायः, प्राप्नुवन्ति पराभवम् ॥४२॥ यक्षाद्यैरप्यनिवर्त्ये, दोषे पुत्रस्य पुष्यति । पीडं पीडमुरः प्रोच्चैः, सुन्दरी विललाप सा ||४३|| अथाऽनुगेहं पर्यटन्, मूर्ती धर्म इव व्रती । तस्य पुण्यैरिवाऽऽकृष्टो, भिक्षार्थं तद्गृहं ययौ ॥४४॥ ३५८ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy