________________
तन्मुनेर्दर्शनाद्दोषो, न्यवर्तिष्ट च किञ्चन । यथाऽरुणोदये ध्वान्तं, पाप्मेवाऽज्ञानकष्टतः ॥४५।। प्रभावं तं मुनेदृष्ट्वाऽऽसनादुत्थाय सम्भ्रमात् । ववन्दे सुन्दरी साधुं, हृष्टा सोमं जगाद च ॥४६।। वत्स ! गच्छान्तिकं साधोर्दानं यच्छ यदृच्छया । मूलाद्गच्छेद्यथा दोषो, दानान्मन्त्राद्विषं यथा ॥४७॥ अवज्ञाते वचस्यस्मिस्तेनाऽथ कुपिताऽऽह सा । नाऽस्मै दास्यसि चेद्दानं, दोषस्त्वां तद् ग्रहीष्यति ॥४८।। इत्थं स भीषितो मात्रा, ददौ दानं च साधवे । अगाच्च मूलतो दोषोऽहो ! प्रभावस्तपस्विनाम् ।।४९।। सच्छायो दोषमुक्तोऽभूदभ्रमुक्तो यथा रविः । दानप्रभावतः सोमः, पूर्ववत्सुखमेधते ॥५०॥ इत्थं भियाऽपि दत्तं दानं सोमस्य सौख्यदं श्रुत्वा । दद्यात् सदैव दानं नाशो नैवाऽस्ति दत्तस्य ।।५१।।
इति भयदाने सोमकथा।
भयदाने सोमकथा ।
३५९