________________
तेनोक्तः श्रेष्ठ्यपि प्राह, वत्स ! स्वच्छमते ! शृणु । तदत्र लभ्यते यद्भो !, अन्यत्र श्रूयतेऽपि न ॥९॥ कृतादरः पुनः सोमो, विनयादन्वयुक्त तम् । तात ! तद्वस्तु किं यत्तु, नाऽन्यत्र श्रूयतेऽपि हि ? ॥१०॥ ग्रहीताऽयमिति ज्ञात्वाऽचकथत् वणिजांवरः । अमूल्या लभ्यते बुद्धिः, कीर्त्तिवद्गत्वरैर्धनैः ॥११॥ ततश्चोवाच सोमोऽपि, तात ! गृह्णीत मे धनम् । मह्यं दत्तां च तां बुद्धि, याऽपायोच्छेदशस्त्रिका ॥१२॥ शतान्यादाय पञ्चाऽथ, द्रम्माणां स ददौ धियम् । द्वयोस्तृतीयो मा भूस्त्वं, कलिं कुर्वाणयोरिति ॥१३॥ बुद्धि श्रियमिवाऽऽदाय, निजं धाम जगाम सः । गत्वा चाऽकथयत् पित्रे, बुद्धिग्रहणकारणम् ॥१४।। तच्छ्रुत्वाऽथ धनः कोपकम्पमानाऽधरोऽब्रवीत् । अरे ! मूर्खाऽग्रहीवित्तैर्बालवित्तामिमां मतिम् ॥१५।। चल चलाऽग्रतो मछु, तं मे दर्शय नैगमम् । क्वाऽऽस्ते स वञ्चितो नष्ट, येन त्वं पश्यतोहृता ॥१६।। इत्युक्त्वाऽऽशु धनः सार्धं, सोमेन श्रेष्ठिसन्निधौ । गत्वा कृत्वा च भ्रूभङ्गमुच्चावचमुवाच तम् ।।१७।। हुं हुं बुद्ध्याऽनया पूर्णं, सर्वलोकप्रसिद्धया । गृहाणैनां यथावस्थां, द्रम्मानस्माकमर्पय ॥१८॥ अथोचे श्रेष्ठ्यपि प्रेक्षा, दत्ता दत्ताऽपि नो मया । किन्तु नैषा प्रयोक्तव्येत्याऽऽज्ञाप्य धनमार्पयत् ॥१९॥ गृहीत्वा श्रेष्ठिनो द्रव्यं, मांसं व्याघ्रमुखादिव । मा भूयोऽपीति पुत्रं स्वं, शिक्षयन् स धनो ययौ ॥२०॥
३५६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।