________________
भयदाने सोमकथा ।
अस्ति चम्पापुरी कर्मकरीवाऽस्याः किलाऽलका । धर्मकर्मप्रभावाऽऽप्तसमृद्ध्याऽत्यमरावती ॥१॥ अयं कामो न्वयं कामः, सन्देहादिति ते पृथक् । यं स्मरं च रतिप्रीति, श्रित्वा सापत्न्यमौज्झताम् ॥२॥ स तत्राऽस्ति नृपो वैरिसमुद्राऽगस्तिराख्यया । मीनकेतुरिति स्फीतो, नीत्यैव पाति च प्रजाः ॥३॥ तत्राऽस्ति वणिजां मुख्यो, रवियोतिष्मतामिव । नाम्ना धन इति श्रेष्ठी, पत्नी तस्याऽस्ति सुन्दरी ॥४॥ अभूत्पुत्रस्तयोः सोमः, कामवत् केशवश्रियोः । रेखां स प्राप वाणिज्ये, धनुर्वेद इवाऽर्जुनः ॥५॥
अन्येद्युः स ययौ कस्मिन्नापणे क्रयहेतवे । विक्रेयं वस्तु नाऽद्राक्षीत्तत्राऽसौ किन्तु किञ्चन ॥६॥ सेव्यमानं वणिकपुत्रैर्बुद्धये विनयाऽन्वितैः । हेमसिंहासनासीनमपश्यच्छ्रेष्ठिनं तु सः ॥७॥ ततश्च कौतुकाद्गत्वा, श्रेष्ठिनस्तस्य सन्निधौ । अपृच्छत्तमिति श्रेष्ठिन्नत्राऽट्टे लभ्यते किमु ? ॥८॥
भयदाने सोमकथा ।
३५५