________________
पुरोऽर्हतः फले दत्ते, कर्ता स्याद्बोधिबीजभाक् । जिनस्य ढौकिते नीरे, कर्तुस्तृष्णा प्रयात्यहो ! ॥९३।। एवमष्टविधां पूजां, यः कुर्यादर्हतां सदा । कर्माण्यष्टाऽपि तस्याऽऽशु, विलीयन्ते न संशयः ॥९४॥ इतश्च स मृगोऽप्येनां, वीक्ष्यमाणोऽभितो नगम् । दैवादागाद्गिरौ तत्र, यत्राऽस्ति तत्प्रियाऽथ सा ॥९५।। आयान्तं वीक्ष्य सा मुग्धा, किञ्चिन्ममत्वभावतः । कथमत्राऽऽगतोऽसि त्वमिति वागालिलिङ्ग तम् ॥९६।। अथ ज्ञानी स्मितं चक्रे, कोऽपि विद्याधरस्ततः । पप्रच्छ तं मुनि हासकारणं प्राह तन्मुनिः ॥९७।। इयमस्य मृगस्याऽहो !, कलत्रं काञ्चनप्रभा । वीवाहदिवसेऽप्येषा, वियुक्ताऽनेन बालिका ॥९८।। मानुषीयं मृगस्त्वेष, वीवाहः कथमेतयोः ? । इति विद्याधरेणोक्ते, तद्वृत्तान्तं जगौ मुनिः ॥९९।। विद्याधरोऽथ कृत्वाऽन्तःकृपां तं हरिणं ततः । यथास्थिताऽऽकृतिं चक्रे, कामकेतुं स्वशक्तितः ॥१००॥ साऽथ वीक्ष्य निजं कान्तमाश्लिष्टं स्वेन वक्षसा । किमेतदिति सम्भ्रान्ता, लज्जासङ्कुचिताऽभवत् ।।१०१॥ कामकेतुः समीक्ष्य स्वं, यथारूपं प्रियां च ताम् । हृष्टो ननाम तं साधु, शुश्रावेति मुनेर्गिरः ॥१०२।। दानशीलतपोभावभेदाद्धर्मश्चतुर्विधः । इहाऽमुत्र सुखाऽऽकाङ्क्षाकारिभिः कार्य एव सः ॥१०३।। गृहव्यापारभारेण, मज्जत्येव भवाऽम्बुधौ । तपःसंयमपात्रेषु, दद्यादानं गृही न चेत् ॥१०४।। तत्र दानं भयादत्रोपरोधाद्भावतोऽथवा । पात्रे पुण्याय दत्तं स्यात्, सोमादीनामिव ध्रुवम् ॥१०५॥
३५४
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।