________________
ततः पितृभ्यां सर्वत्र, नवोढा काञ्चनप्रभा । गवेषिताऽपि न क्वाऽपि, प्रादृश्यत गवेषकैः ॥२१॥
तां गवेषयितुं कामकेतुः स्वयं चचाल सः । अकारयच्च पाथेयं, चन्द्रकान्तां प्रभण्य तु ॥ २२ ॥ चन्द्रकान्ताऽथ दध्यौ चाऽऽनेष्यते काञ्चनप्रभाम् । तत: करोमि तद्येन, तां नाऽऽनयति नैत्ययम् ॥२३॥ कृत्वा पाथेयमेषाऽथ, बद्ध्वा ग्रन्थिषु सप्तसु । अर्पयामास कान्ताय, तदादाय चचाल सः ॥२४॥ यस्यां दिशि स तार्क्ष्योऽगात्, प्रतस्थे सोऽपि तां प्रति । अर्द्धमार्गे च मिलितः, सार्थस्तस्य महानथ ||२५|| गच्छंस्तेन सहैषोऽपि, प्राप किञ्चित्सरोवरम् । सार्थ: प्रववृते भोक्तुं स्वस्वपाथेयमादरात् ||२६|| कामकेतुस्ततो वस्त्रप्रथमग्रन्थिशम्बलम् । उद्ग्रथ्य बुभुजे सर्वं, तत्प्रभावादसौ ततः ॥२७॥
बभूव त्रिफण: सर्पः, करालो यमखड्गवत् । दृष्ट्वा फूत्कारिणं तं हि, नेशुः सर्वे जना भयात् ॥२८॥
दूरीभूय ततस्तैश्च हन्यते लेट्टुभिर्दृढम् । स सर्पश्च प्रहाराऽऽर्त्तो, न शक्तो नष्टुमन्यतः ॥ २९॥
पाथेयवस्त्रग्रन्थीनामधस्तात्तस्थिवानहिः ।
एकेन केनचित् पुंसा, मुक्तो लेष्टुः परिस्फुरन् ||३०||
द्वितीयग्रन्थेरुपरि, सङ्घातेन पपात च । ग्रन्थिः पुस्फोट तन्मध्यत्, पाथेयं विशरार्वभूत् ॥३१॥
दैवाच्च तस्य सर्पस्य, पाथेयं प्राविशन्मुखे । बभूव तत्प्रभावेण, कामकेतुः स्वरूपभृत् ॥३२॥
३४८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।