SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अहो ! मे चन्द्रकान्तायाः, कियच्छक्तिविजृम्भितम् ? । तया मे मारणोपायश्चक्रेऽयं विहितेjया ॥३३॥ पक्षविपक्षभावेन, ग्रन्थौ ग्रन्थौ पृथक् पृथक् । समस्त्यत्रौषधं रूपपरावर्तस्वरूपकृत् ॥३४|| इति चित्रीयमाणोऽन्तः, कामकेतुः स्वरूपभृत् । किमेतदिति पृष्टस्तैर्बिभ्यद्भिः सार्थपुरुषैः ॥३५॥ उवाच कामकेतुश्च, तेषां चित्राय सादरम् । अहं बहुप्रभावोऽस्मि, योगी सर्वत्र गामुकः ॥३६।। दत्तघाताऽपराधित्वाद्विभ्यद्भिस्तैर्मनस्यथ । त्यक्तो रात्रौ स सुप्तोऽपि, तत्प्रभावं विचिन्त्य हि ॥३७।। गते सार्थे प्रभातेऽसौ, समुत्थाय व्यचिन्तयत् । मद्वाचा शङ्कितः सार्थस्त्यक्त्वा मां क्वचिदप्यगात् ॥३८॥ तत्सर्वग्रन्थिपाथेयमास्वाद्याल्पाल्पमात्मना । वीक्ष्ये प्रभावं किं किं स्यादमीभिश्चित्रमद्भुतम् ? ॥३९॥ इति ध्यात्वा पृथग् ग्रन्थिपाथेयं विततान सः । जघास तृतीयग्रन्थेः, शम्बलं कवलैस्ततः ॥४०॥ कामकेतुरभूदोतुरूपस्तच्छब्दकृद्धृशम् । ततश्चैतन्यवानादत्तुर्यग्रन्थिस्थशम्बलम् ॥४१॥ भूयः स्वरूपभुज्जज्ञे, पुनः पञ्चमशम्बले । भक्षिते सोऽभवत्सिहस्ततः षष्ठौषधेऽथ सः ॥४२॥ जातः स्वरूपतः शीघ्रमेवं च रसवानसौ । अनवेक्ष्याऽऽयतिं मूढो, लिलेह सप्तमौषधम् ॥४३॥ बभूव च मृगो रम्यस्ततोऽसौ पूर्ववव्यधात् । सर्वोषधानामास्वादं, स्वरूपप्रतिपित्सया ॥४४॥ दाने कामकेतुकथा । ३४९
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy