________________
वीवाहवासरे साऽथ, नवोढा चारुलोचना । दारुघाटं गरुत्मन्तं, कौतुकादारुरोह च ॥९॥ चापलात्कीलिकायन्त्र, व्यश्लेषयन्मृगेक्षणा । स वायुसङ्ग्रहात्काष्ठतार्क्ष्यो व्योम्नोदडीयत ॥१०॥ तत्राऽऽरूढा नवोढा सा, बाढं गाढकृतग्रहा । मनोवेगेन तार्क्ष्यणोत्पपाताऽऽकाशमण्डले ॥११॥ ततश्च पूच्चक्रे कैश्चिद्भुञ्जानैरस्फुटस्वरैः । ताम्बूलपूर्णवक्त्रत्वाज्जघ्ने कैश्चिदुरोऽस्वरम् ॥१२॥ उपविश्य समुत्तस्थे, कैश्चित्त्वकृतभोजनैः । उच्छिष्टवदनैः कैश्चिदलब्धाभ्युक्षणैर्गतम् ॥१३॥ गृहीत्वा पूर्णपात्राणि, कैश्चिद्यातं पुनर्गृहे । त्यक्त्वा मङ्गलगीतानि चकुर्नार्योऽनुदेवितम् ॥१४॥
असम्पूर्णनृत्तसुखाः, काश्चित्पेतुर्भुवि भ्रमात् । दुःखेन क्षुधया चाऽपि, मुमूर्च्छः काश्चिदाकुलाः ॥१५॥ लोके शोकाऽऽकुले काश्चित्, स्वेच्छया बुभुजुः स्वयम् । नवोढापितृवर्गश्च शुशोच च रुरोद च ॥ १६ ॥
कामकेतुकलत्रं चाऽग्रेतनं मुमुदे हृदि । कामकेतुरथैकाकी, शोकवान् स्वगृहं ययौ ॥१७॥
अशक्तः प्रत्याहरणे, नवोढाया बभूव सः । वीवाहवासरः शोकसाम्राज्येनाऽपहस्तितः ॥१८॥
यतः - संसारेऽस्मिन्नसारे हि, पदार्थाः क्षणलम्भिनः । लोहकृद्भस्त्रिकेव स्युः, पूर्णा रिक्ताश्च तत्क्षणात् ॥१९॥ प्रददात्युत्सवे शोकं, शोके सम्मदसम्पदम् । अन्यथा विदधत्सर्वं, बलीयः कर्म केवलम् ॥२०॥
दाने कामकेतुकथा ।
३४७