________________
किमेतदिति सम्भ्रान्तो, यावच्चिन्तामवाप सः । तावत्सैकतराजेनाऽऽहूतोऽगानृपसंसदम् ॥६९।। प्रदत्ततालिकं राज्ञा, स प्रोच्चैर्जहसे यथा । तत्ते कुत्र गतं राज्यं, भोगराज ! क्षणादपि ? ॥७०।। प्रहासाय जगादैष, राजन् ! सैन्यं मयाऽधुना । शक्रस्य दैत्यरुद्धस्य, साहाय्ये प्रेषितं द्रुतम् ॥७१।। इत्यादिविटवाणीभिः, प्रमोदयन् स सैकतम् । दिनानि गमयामास, पुरुषार्थविरक्तधीः ॥७२।। इति दुर्विनयात्प्राप, न चाऽयं पैतृकी श्रियम् । न च राजप्रसादोत्थां, कार्यो दुर्विनयो न तत् ॥७३।।
इति दुर्विनये भोगराजकथा ॥
दुर्विनये भोगराजकथा ।
३४५