________________
तुरङ्गप्रेषणाऽऽमर्ष, दधानो मनसि स्वयम् । हतप्रतापमात्मानं, मन्यमानोऽवति प्रजाः ॥५७।। ततो भूयोऽपि साराणि, वस्तूनि सैकतो नृपः । अयाचयद्भोगराजात्, स प्रहित्य बृहन्नरान् ॥५८।। ततश्च कुपितो भोगराजोऽपि सैकतं प्रति । अभिषिषणयिषुर्दाग, जयढक्कामवादयत् ॥५९।। सर्वाभिसारसम्पूरप्रच्छादितमहीतलः । समुद्भूतरजःपुञ्जलुप्तादित्यकरोऽपि च ॥६०॥ अवनामितशेषाऽहिवपुर्नालफणादलः । दिग्गजानामपि क्षोभं, कुर्वाणो निरगात्पुरात् ॥६१।। [युग्मम्] प्राप्तश्च दलयन्नुर्वीमभिरम्य पुरीमसौ । ज्ञातं च सैकतेनैतद्भोगराजो यदेति हि ॥६२।। उवाच मन्त्रिणं यद्भो !, मया प्रोक्तं तदा किल । नरः समृद्धिमारूढोऽप्याराध्यमवमन्यते ॥६३।। भोगराजेन तत्सर्वं, पुरं यावदवेष्ट्यत । ततः सैकतराजेन, तमभिप्रेषितं दलम् ॥६४॥ रचयित्वा रणक्षेत्रं, मिथो योद्धं कृताऽऽदरम् । तद्दलं द्वयमाटोपाद्यावत् सज्जमभूत्ततः ॥६५॥ स्वयं सैकतराजेन, समादिष्टः स चेटकः । यदेतद्भोगराजस्य, राज्यं द्रागुपसंहर ॥६६।। ततश्च तत्तथा युद्धसंरब्धमुद्यताऽऽयुधम् । भोगराजस्य सैन्यं द्राग्, क्वाऽप्यगादिन्द्रजालवत् ॥६७।। भोगराजस्ततः पूर्वसंवीतमलिनाऽम्बरः । विना स्वां दयितामन्यन्न पश्यत्येष किञ्चन ॥६८॥
३४४
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।