SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ हस्त्यश्वशालारम्ये च, निविष्टद्वारवेत्रिणि । सौधे स्वर्णमये पश्यत्यात्मानं प्रियया युतम् ॥४५।। जय नन्द चिरं जीवेत्यादिवाक्यैः प्रसादयन् । राजलोको मन्त्रिमुख्यो, ददृशे स्वपुरोऽमुना ॥४६।। चिररूढामिवाऽऽसाद्य, भोगराजो नृपश्रियम् । स्वाऽऽज्ञां विस्तारयामास, चक्रे राज्यं च विक्रमी ॥४७।। प्रत्यहं येन कार्यं स्यात्तत्सर्वं चेटको व्यधात् । भोगराजस्य नैवाऽभूत्, केनाऽपि न्यूनता खलु ॥४८॥ कुर्वन् राज्यं स मत्तोऽभून्न शक्रमपि मन्यते । दुविनीतश्च राज्यं तत्, प्राप्तश्च को न माद्यति ? ॥४९॥ दुविनीताविनीताश्च, कष्टचेष्टाः स कारयन् । भोगराजो नृपो दुष्टश्चेटकं निरवेदयत् ॥५०॥ अथाऽन्यदा सैकतेनौष्ट्रिकैरेष तुरङ्गमान् । याचितः परीक्षाहेतोः, कथं स्मरति मां न वा ? ॥५१॥ कष्टात् कथञ्चनाऽऽसन्नोपकारं नृपतेः स्मरन् । तुरङ्गान् प्रेषयामास, सैकताय नृपाय सः ॥५२॥ दिनानां कियतामन्ते, पुनः स सैकतो नृपः । भोगराजादयाचिष्ट, भूयोऽश्वान् दूतपूरुषैः ॥५३॥ मत्तः कथमयं भूयो, भूयः प्रार्थयते हयान् ? । आधिक्यं मनुते स्वस्य, बलेन केन गर्वितः ? ॥५४|| नैवाऽहमर्पयिष्यामि, तस्मै तुरङ्गमान्निजान् । कुर्याद्यद्रोचते तस्य, यदेषोऽस्मि स्थितोऽत्र भोः ! ॥५५।। इति ब्रुवाणो मन्त्र्याधैर्भोगराजो व्यबोध्यत । सैकतक्ष्माभुजे चाऽश्वाः, कतिचित् प्रेषिताश्चिरात् ।।५६।। दुर्विनये भोगराजकथा । ३४३
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy