________________
लिखित्वा लेखं स्वेनैव, भोगराजाय सोऽक्षिपत् । ऊचे च यदयं लेखो, विन्ध्यस्योपत्यकातले ||३३|| पिण्डालनाम्नो न्यग्रोधवृक्षस्याऽधो भुवि स्थितः । वदेरुच्चैरयं लेखो, गृह्यतां नृपशासनात् ॥३४॥ यो ग्रहीष्यति लेखं स, दास्यते ते यथेप्सितम् । इत्युक्त्वा भूभृता स्वेन, भोगराजो व्यसृज्यत ॥३५॥ सोऽथ सह कलत्रेण, विन्ध्याऽद्रौ प्रययौ क्रमात् । यथाऽऽदिष्टं तथाऽपश्यत्प्रोच्चैर्न्यग्रोधपादपम् ॥३६॥ तस्याऽधस्तात् स्थितः प्रोचे, लेखोऽयं गृह्यतामिति । निःसृतौ च वटस्कन्धादग्रहस्तौ कृताऽञ्जली ||३७|| भोगराजेन लेखोऽथ, क्षिप्तस्तत्र कृताऽ [ऽञ्जलौ । विभाव्य चेटको लेखस्याऽर्थं तिरोहितोऽवदत् ||३८||
,
स्वाऽभिप्रेतं वद क्षिप्रं यथा सम्पादयाम्यहम् । एषोऽस्मि सैकतनृपाऽऽदेशस्य करणोद्यतः ||३९|| भोगराजस्ततो दध्यौ, राजादेशादयं मयि । प्रसन्नो दास्यते सर्वं, याचे राज्यं ततोऽत्र हि ॥४०॥
जगाद च विधेहि त्वं, मद्योग्यं पुरमुत्तमम् । साम्राज्यप्रक्रियां सर्वां, मां कारय प्रतापतः ॥४१॥ इत्युक्ते भोगराजेन, व्यधात् सोऽप्यखिलं क्षणात् । भोगराजस्ततः प्रेक्षाञ्चक्रे शक्रेण गर्वभाक् ॥ ४२ ॥ राजप्रासाददेवौक:सौधहट्टप्रतिष्ठिताम् । वापीकूपसरोवप्राऽऽरामरम्यश्रियं पुरीम् ||४३||
इतस्ततश्च लोकं च, स्वस्वव्यापारकारिणम् । उत्सवाऽऽनन्दसम्मोदिकामिनीजनजृम्भितम् ॥४४॥
३४२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।