________________
ततश्च कुपितः प्राहोपाध्यायो याहि रे शठ ! । दुर्विनीत ! न मे कार्य, त्वत्पाठाऽधिगतैर्धनैः ।।२१।। कलापीवाऽब्दगाऽथ, तद्वाचा प्रीणितो द्रुतम् । उत्थाय स गतो रन्तुं, परिपूर्णमनोरथः ॥२२॥ एवमुच्छृङ्खलः कांश्चिदाघ्नन् कैश्चिदथाऽऽहतः । दिनानि गमयन्नेष, दुष्टधीः प्राप यौवनम् ॥२३॥ दुविनीतत्वविख्यात, उद्वोढुं लभते नहि । स कन्यकां महेभ्यानां, सत्कीर्तिं महतीं न च ॥२४॥ न मातुर्न पितुर्नैव, देवस्य न गुरोर्न च । स्वजनस्य न मित्रस्य, वाचाऽपि विनयं व्यधात् ।।२५।। ततो निर्वासितः पित्रा, काञ्चित् स्वीकृत्य योषितम् । अभिरम्यपुरे गत्वा, सिषेवे सैकतं नृपम् ॥२६।। दुविनीताः सहासाश्च, वाच उच्चारयन्नसौ । नर्मपात्रं बभूवाऽस्य, सैकतस्य महीपतेः ॥२७|| अन्यदा सैकतो राजा, विद्वद्गोष्ठीमुपागतः । श्रुत्वा प्रभावं मन्त्राणां, मन्त्रमेकमसाधयत् ।।२८।। ततश्च चेटकः सिद्धो, यद्राजाऽऽह करोति तत् । सत्त्ववतां मनुष्याणां, किङ्करा देवयोनयः ।।२९।। अवश्यमृद्धिमारूढः, पुमान् स्यादवलेपभाक् । इति वादिनि भूपाले, भोगराजोऽन्यदाऽब्रवीत् ॥३०॥ नित्यं त्वां सेवमानोऽहं, म्रिये स्वामिन् ! बुभुक्षया । तत्प्रसीद दृशं देहि, प्रसन्नां मयि भूपते ! ॥३१।। ततश्च सैकतो राजा, मन्त्रप्रभावमीक्षितुम् । सत्यामृद्धौ मदोऽस्य स्यान्न वेत्यवेक्षितुं च सः ॥३२॥
दुविनये भोगराजकथा ।
३४१