SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ मन्त्रिपुत्रत्वादाचार्यः, शक्तो वक्तुं न तं प्रति । शृणु चिन्तय वत्स ! त्वं, प्रोवाचेति मृदुं गिरम् ॥९॥ तथाऽपि बधिर इवाऽशृण्वन् पश्यति सोऽन्यतः । पुनः प्रोक्तः स गुरुणा, किमन्यतस्त्वमीक्षसे ? ॥१०॥ धृष्टो निर्भीरुवाचैष, गुरो ! पश्यामि कौतुकम् । पश्य छिद्रादतोऽखण्डश्रेणिभाजो हि कीटिकाः ॥११॥ किलैकतन्तुना बद्धा, इव यान्त्यन्यतो नहि । न विश्लिष्यन्ति किन्त्वेताः, कुर्वते स्वस्तिकाऽऽकृतिम् ॥१२॥ ततोऽल्पां कुधमाधाय, प्राहाऽमात्यसुतं गुरुः । कथयतोऽर्थसारं मे, वीक्ष्यस्व मुखसन्मुखम् ॥१३॥ ततः स एकया दृष्ट्या, वीक्ष्यमाणोऽपि तन्मुखम् । विज्ञातो गुरुणा ह्यन्यत्किमपि चिन्तयन्निति ॥१४॥ अरे ! किं चिन्तयस्यन्यत्, कथितं न शृणोषि किम् ? । इत्युक्तो गुरुणा प्राह, स्मित्वोच्चैः स स्फुटाऽक्षरम् ॥१५॥ युष्माकं वदतामासंस्ताडिता गलनाडिकाः । प्रत्येकं गणयन्नस्मि, कियत्यः सन्ति ता इति ।।१६।। उपाध्यायस्ततः कोपादूचे वीक्षस्व मन्मुखम् । अवधारय चित्तेऽर्थं, मूर्ख ! मा दादृशौ परे ॥१७॥ पश्यत्यभिमुखं शून्ये, तस्मिन् गुरुरुवाच तम् । किमरे ! वीक्षसे ? धत्से ?, किं चेतस्यथ सोऽवदत् ॥१८॥ प्रभो ! यदा भवन्तोऽर्थं, व्याचक्षते तदा मुखे । अतिव्यात्ते मया दृष्टा, दशना विषमोन्नताः ॥१९॥ ततो जानामि यद्येतान्, दशनानुन्नतान्नतान् । अनेनोपलखण्डेन, पातयामि निहत्य तान् ॥२०॥ ३४० चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy