________________
दुर्विन भोगराजकथा ।
प्रागात्मा विनये योज्यः, प्राप्यन्ते विनयाद्गुणा: । गुणेभ्यः सम्भवन्त्यर्थास्तेभ्यः पुण्यं ततः शिवम् ॥१॥ नाऽस्त्येव विनयो यस्य स पुमान् कथमश्नुते ? | प्रभुत्वमानसम्पत्तिसुखानि भोगराजवत् ॥२॥ अस्ति स्वस्तिनिधानाऽऽख्यं पुरं ख्यातं गुणर्द्धिभिः । जैनाऽऽयतनमालाभिः, पुरश्रीर्यत्र शोभते ||३|| यस्याऽतितीक्ष्णे निस्त्रिंशे, सपानीये लसन्त्यपि । छिन्ना मग्ना जयश्रीर्न, स तत्राऽस्ति नृपो जयः ॥४॥ तस्याऽस्ति सचिवो वाग्मी, नागादित्याऽभिधोऽस्य च । तत्पत्न्या नागदेव्याश्च, भोगराजः सुतोऽभवत् ॥५॥ घातदुर्वाक्यवस्त्वोघभञ्जनोच्छृङ्खलः स तु । न केवलं कुटुम्बं स्वं, परानप्युदवेजयत् ॥६॥ ततो विनयशिक्षायै, कलाऽऽचार्यस्य सोऽर्पितः । सचिवेन यतः पित्रा, शिक्षणीयाः सुता हठात् ॥७॥ पुरः समुपवेश्यैनमाचार्येऽर्थविचारिणि । भोगराजोऽन्यतः पश्यन्नहि शृणोत्यवज्ञया ॥८॥
'
दुर्विन भोगराजकथा |
३३९