________________
आत्मनः प्रणिधानेन, भावनातत्त्वमीयुषः । घातिकर्मक्षयाज्जातं, केवलज्ञानमुज्ज्वलम् ॥५७॥ [युग्मम्] अप्रतिपातिना तेन, लोकं ज्ञानेन पश्यतः । चारित्रचिह्नमनायाऽऽर्पयदेतस्य देवता ॥५८।। भवाऽम्भोधिशिलां नारीमपास्य संयमश्रियम् । उपयेमे विनीतोऽयं, तस्मिन् लग्नशुभक्षणे ॥५९॥ ततो या विनये बुद्धिर्मनुष्याणां समुज्ज्वला । इहाऽमुत्र च यत्प्रीतं, यावन्मोक्षं ददाति सा ॥६०॥
इति विनये विनीतकथा ॥
३३८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।