SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ससर्पे वेश्मनीवाऽस्य, शमशालिनि चेतसि । कषाया न वसन्त्येव, स्वविनाशनभीरवः ॥४५॥ राजव्यापारसुव्यग्रे, ऋद्धिबन्धनिरन्तरे । गार्हस्थ्ये वर्तमानोऽपि, स तु धर्ममपालयत् ॥४६॥ उपाश्रये स साधूनां, वन्दनाय कदाऽप्यगात् । दृष्ट्वा चैकं मुनिं ग्लानं, श्रद्धाबन्धोद्धुरोऽवदत् ॥४७॥ मद्गृहेऽस्त्यौषधं सम्यग्, रोगस्याऽस्य निवर्त्तकम् । प्रासुकं चेति साधुभ्यामानाययत सत्वरम् ॥४८॥ इत्युदित्वा ययौ गेहे, साधुभ्यां सह मन्त्रिराट् । प्रविष्टोऽन्तर्गृहं सोऽथ, बहिः साधू तु तस्थतुः ॥४९॥ उपयन्तुं श्रेष्ठिकन्यां, तदा चाऽग्रेऽपि सूत्रितम् । आसीत्तदेव वीवाहदिनं तस्य गुणावहम् ॥५०॥ विनीतो व्याकुलस्तत्र, विसस्मार तदौषधम् । साधू विलम्ब्य किञ्चिच्चाऽऽजग्मतुः समुपाश्रयम् ॥५१॥ वीवाहोचितनेपथ्यमण्डनानि स कारयन् । लग्नक्षणस्य सम्प्राप्तौ, सस्मार च तदौषधम् ॥५२॥ कृत्वा तत्रोत्तरं किञ्चिदेकेन सुहृदा सह । स पश्चात्तापमादायौषधमुपाश्रयं ययौ ॥५३॥ मुग्लिनश्च रोगार्तोऽप्यौषधं नाऽन्यदादधौ । ततः कष्टमुपारूढो, निस्सहोऽभूदतीव हि ॥ ५४ ॥ तं तथा बाधितं साधुं, विनीतः प्रेक्ष्य सास्रदृक् । पपात पादयोस्तस्य, निन्दन्नात्मानमात्मना ॥५५॥ त्रिधा क्षमयतः साधुं विनीतस्य महात्मनः । समलङ्कृतवीवाहोचितमण्डनशालिनः ॥५६॥ विनये विनीतकथा | ३३७
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy