________________
पिता कर्मकरो वृद्धो, माता कर्मकरी च ते । युवा च कर्मकृद्भातेत्यवगच्छ कुटुम्बकम् ॥३३।। नाऽन्यथाभाषिणोऽमीति, निश्चित्य तान् प्रणम्य च । सार्द्रनेत्राऽन्तःकरणो, निजं वेश्म जगाम सः ॥३४।। मषीमलिनवस्त्राया, धूमध्यामलचक्षुषः । विस्मयात्पश्यति जने, कर्मकर्याः पदेऽपतत् ॥३५॥ त्वमत्रस्थाऽपि न ज्ञाता, मयका हतकेन हा ! । मातर्मुक्तिरिवेदानीं, गुरुभिः कथिताऽसि मे ॥३६।। अजानत्याऽपि मार्गेऽहं, पुत्रवल्लालितस्त्वया । मयाऽतीव कृतघ्नेन, कर्मकृत्त्वे कृताऽसि हा ! ॥३७॥ इति साऽस्रं वदत्यस्मिन्, क्षरत्स्तन्यस्तनी तु सा । चिराज्ज्ञातोऽसि वत्स ! त्वमित्युक्त्वाऽदात्स्ववक्षसा ॥३८॥ हा ! धिक् पिक्येव दुर्भिक्षे, पोषितुं त्वामशक्तया । त्यक्तोऽसि पापया मार्गे, मया धिग्मां कुमातरम् ॥३९॥ लब्धपक्षः स्वपुण्येन, वचोभिरमृतद्रवैः । पिकवत्प्रीणयन् लोकं, परां श्रियमशिश्रियः ॥४०॥ तथैव विनयस्नेहात्, पितर्धातुः पदोन्मन् । आश्लिष्टो वक्षसा ताभ्यां, विनीतः प्राप सम्मदम् ॥४१॥ स चक्रे स्वगृहे तांश्च, यत्कृताऽधिकृतौ सदा । भवन्ति वृद्धा गेहेषु, पुण्याद्धि गृहमेधिनाम् ।।४२।। यथा पित्रोस्तथाऽन्येषामपि सैष यथोचितम् । कुर्वन् वाग्भिः क्रियाभिश्च, विनीतः ख्यातिमासदत् ॥४३॥ स देवे गुरुषु प्राप, मुख्यतां विनयस्पृशाम् । अग्नाविव रसश्चित्ते, क्रौर्यं नाऽस्य पदं दधौ ॥४४।।
३३६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।