________________
इत्यादिवचनैस्तस्य, शास्त्रतत्त्वार्थवादिभिः । स राजा पृथिवीचन्द्रः, प्रबुद्धः शस्त्रमत्यजत् ॥२१॥ धर्मोपदेष्टाऽसौ मेऽभूदिति प्रत्युपकृन्नृपः । क्ष्मातिलकपुरे सौवे, विनीतं सचिवं व्यधात् ॥२२॥ तेन न्यायात् पुरीलोकं, रक्षता कीर्त्तिमीयुषा किमपि याचतेत्युक्ता, नेति कर्मकृतोऽवदन् ॥२३॥ इतश्च चम्पानाथेन, भग्नायां क्ष्मापुरि क्षणात् । विषवाक्योऽग्रहीद्दीक्षां, वैराग्याद्गुरुसन्निधौ ||२४||
तप्यमानस्तपस्तीव्रमधीयन्नागमानसौ । क्ष्मातिलकपुरेऽप्यागाद्विषवाक्यो व्रती क्रमात् ॥ २५॥ गुरूनापृच्छ्य पुण्यात्मा, मासक्षपणपारणे । अविशत्पर्यटन्नेष, विनीताऽमात्यवेश्मनि ॥ २६ ॥ अस्मत्स्वामिपितैवैष, कथमेवंविधोऽभवत् ? । उपलक्ष्येति तं कर्मकृतः सर्वे ववन्दिरे ||२७|| ढौकितं वस्तुजातं तैः सोऽनादायैव जग्मिवान् । आगतस्य विनीतस्य, तैराचख्ये प्रमोदतः ॥२८॥ विनीतोऽपि जगामाऽथ, तदैव तदुपाश्रयम् । विषवाक्यमुनिं दृष्ट्वा, शुशोच मुमुदे च सः ||२९|| नमस्कृत्य गुरून् साधून् ववन्दे पितरं निजम् । क्षणं स्थित्वा ययौ गेहे, एवमभ्येति नित्यशः ||३०|| सोऽन्यतश्चलितान् ज्ञात्वा, गुरून् विनयतोऽब्रवीत् । पिता मेऽत्राऽस्तु येन स्यां प्रीतो जनकदर्शनात् ॥३१॥ ज्ञात्वाऽऽहुर्गुरवो मन्त्रिन् !, नाऽयं ते जनकः पिता । किंतु ते पोषको मन्त्री, प्राह कस्तर्हि ? तेऽब्रुवन् ||३२||
विनये विनीतकथा ।
३३५