________________
राजा तुष्टोऽथ भूपोऽपि, तस्मै विनयसद्मने । सनाथं विनीत इति, नाम्ना श्रेष्ठिपदं ददौ ॥९॥ पदे च पैतृके लब्धे, भूपात्प्रसन्नचेतसः । श्रीपात्रं स विनीतोऽभूत्, पद्मवत् प्रोदिते रवौ ॥१०॥ अथाऽन्यदा कुतोऽप्येत्य, दुर्भिक्षक्षीणसम्पदः । वृद्धो वृद्धा युवा चैकस्तस्य कर्मकृतोऽभवन् ।।११।। अथाऽन्यदा बलाच्चम्पामहीपालं जिघृक्षुणा । श्रीहर्षेण सहाऽचालि, विनीतः कर्मकृद्युतः ।।१२।। ज्ञात्वा श्रीहर्षमायान्तं, चम्पेशः सम्मुखोऽचलत् । ततो नाऽसीरयोरासीदिति युद्धं परस्परम् ॥१३॥ दन्तादन्ति गजैयुद्धं, रथिकैश्च शराशरि । खड्गाखड्गि च पादातैः, कुन्ताकुन्त्यश्ववारकैः ॥१४॥ दैवाच्चम्पेशसैन्येन, भग्ने श्रीहर्षभूपतौ । तस्य सैन्यं पलायिष्टाऽऽदाय जीवान् दिशो दिशि ॥१५॥ विनीतोऽपि परित्यक्तो, नश्यद्भिः स्वपदातिभिः । आत्मेव सुकृतैर्नैव, मुक्तः कर्मकरैः स तैः ॥१६॥ स एकां दिशमुद्दिश्य, नश्यन्नैक्षिष्ट निम्नगाम् । तत्र स्नात्वाऽम्बु पीत्वा च, तीरवृक्षमशिश्रियत् ॥१७॥ अथैकं कान्दिशीकं स, मृगं तदनुसादिनम् । उद्गीर्णास्त्रं समीक्ष्यैणस्याऽन्तरा दययाऽभवत् ॥१८॥ मृगे दूरं गते प्रेक्ष्य, सादिनं क्रोधवादिनम् । विनीतः प्राह युज्येत, त्वादृशां दीनमारणम् ? ॥१९।। त्वल्लक्षणैरहं वेद्मि, राजाऽसि क्षत्रियोत्तमः । क्षत्रियाणां गृहीताऽस्त्रे, शस्त्रघातः प्रशस्यते ॥२०॥
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।