________________
विनये विनीतकथा ।
गुणेषु विनयः श्लाघ्यः, तेजस्विषु यथा रविः । येन कर्मग्रहाः सर्वे, प्रच्छाद्यन्ते निजोदयात् ॥१॥ विनयात्सम्पदः सर्वा, मेघादिव जलद्धयः । केवलज्ञानलाभश्च, विनीतस्यैव जायते ॥२॥ व्योम्नीवार्कः क्षमापुर्यां, श्रीहर्षो नाम भूपतिः । वैरिस्त्रीनेत्रकुमुदसङ्कोचव्रतनिर्वृतः ॥३॥ स्ववाग्दोषपरिभ्रष्टश्रेष्ठिभावोऽस्ति तत्र तु । विषवाक्याऽभिधः श्रेष्ठी, प्रारब्धकृषिजीवनः ॥४॥ अन्यदा कर्मकृद्योग्यं, भक्तं मूर्ध्नि निधाय सः । गच्छन् क्षेत्रे ददर्शकं, रुदन्तं बालकं पथि ॥५॥ कृपया कटिमारोप्याऽभोजयत्तं स्वपाणिना । कोऽसि ? क्वत्योऽसि ? कस्याऽसीत्यादि पृच्छन् गृहं ययौ ॥६।। अपत्याऽभावदीनायै, पत्न्यै तं बालमार्पयत् । लाल्यामानस्तयाऽऽत्मेव, कलाभृत्प्राप यौवनम् ॥७॥ विषवाक्यगिरा दग्धं, स्ववाक्यैरमृतैरिव । निर्वापयन् पुरीलोकं, ख्यातोऽभूदाऽऽनृपं स हि ॥८॥
विनये विनीतकथा ।