________________
राजा विज्ञाय तं कीरमाजूहवत् स्ववेत्रिणा । नरात्तपञ्जरस्थोऽयं, राजसंसद्यगाच्छुकः ।।९।। आलप्य कौतुकाद्राज्ञा, स्वाऽङ्कस्थस्य सुतस्य सः । पृष्टो जन्मग्रहफलं, समाख्यत् प्रश्नविच्छुकः ॥१०॥ सुतस्तेऽयं महीनाथ !, भविष्यति महाविटः । हास्यपात्रीकृताऽऽत्मा च, जीविता शरदां शतम् ॥११॥ श्रुत्वेति नृपतिः कीरवाक्प्रत्ययान्निजं सुतम् । शोचन् विषादमापन्नस्तस्थौ किञ्चिदधोमुखः ॥१२॥ ततः कामपताकाऽपि, कौतुकाच्छुकमात्मनः । जन्मस्वरूपमप्राक्षीदाधिपत्यप्रमोदिता ॥१३।। आनाय्य प्रश्नमन्तस्तमवधार्य विशेषतः । ध्यानात् किमपि विज्ञाय, मौनेनाऽस्थाच्छुकश्चिरम् ॥१४॥ ततः कामपताका साऽपृच्छत् कीर ! वद द्रुतम् । कीरः प्राह शुभे ! मा त्वं, प्राक्षीhनं समाश्रय ॥१५।। आशङ्कितमनाः सा च, मा भूदस्मिन् श्रुते मम ।। मनसो दौस्थ्यमित्येषा, तस्थौ दाक्ष्येण मौनभाक् ॥१६।। ततश्च लक्ष्मणो राजा, तज्ज्ञातुमन्तरुत्सुकः । बभाषे शुकमाख्याहि, यथास्थितं बिभेः स्म मा ॥१७॥ राजन्नेषा तवाऽत्यर्थं, प्रियेत्यस्या विरूपके । कथिते भावि ते दुःखं, तच्छङ्के कथयन्नहम् ॥१८॥ इत्युक्ते शुकराजेन, कृत्वैकान्तं नृपोऽवदत् । यदृष्टं भवता सम्यक्, प्रश्नात्त्वं कीर ! तद्वद ।।१९।। शुकः प्राह नृपैषा ते, प्रियाऽन्त्यजकुलोद्भवा । अस्याः संसर्गतो जातः, सलोको मलिनो भवान् ॥२०॥
४२६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।