________________
श्रुत्वेति शुकवाचं स राजाऽन्तःखेदमावहन् । नगराद्बहिरभ्येत्य, तस्थिवान् दुःस्थमानसः ॥२१॥ कामपताकाऽथ दध्यौ, न वेद्मि स्वं कुलं क्व वा । तच्छृणोमि यद्राजाऽयं, बन्दिनीं मामुपायत ॥२२॥ शुकश्च सर्ववित्त्वेन, ख्यातो ब्रूते यदत्र तत् । लोकः प्रत्येति तत्कीरवाक् कार्या कथमन्यथा ? ||२३|| इति साऽऽलोच्य चित्तेनाऽजूहवन्मुख्यमन्त्रिणम् । शुकवाचं निवेद्याऽस्मै, स्वाऽभिप्रायं न्यवेदयत् ॥२४॥ मन्त्रिन् ! कीरगिरा राजा, ह्यविचार्यैव निर्ययौ । दैवात्त्यक्तेऽमुना राज्ये, न त्वं नाऽहं च राज्यभाक् ॥२५॥
तदेषा क्रियते बुद्धिर्यत्र जानन्ति किञ्चन । ते हि दत्त्वाऽर्थमत्यर्थं, क्रियन्ते शीघ्रमात्मसात् ॥२६॥
ततो राज्ञः पुरस्तात्ते, भाण्यन्ते प्रोच्चकैरिदम् । यदेष पक्षी सर्वत्र, राजन् ! ब्रूते मृषावचः ॥ २७॥ यदस्माभिर्निमित्तानि, वीक्षितानि बहून्यपि । असत्या शुकवाग् नूनं, तानीत्याख्यान्ति भूरिशः ॥२८॥ इति सा मन्त्रिणा सार्द्धमालोच्याऽऽकार्य सत्वरम् । वित्तैः सन्मान्य दैवज्ञान्, यद्वक्तव्यमशिक्षयत् ॥२९॥ ततश्च मन्त्रिणा सार्द्धं, ते पुरो नृपतेर्ययुः । शुकवाचं निराकर्त्तुमूचुः सम्भूय भूपतिम् ॥३०॥ तिर्यग्जातिरसौ कीर इत्यस्य प्रत्ययोऽत्र कः ? | ईक्षितं सम्यगस्माभिरसत्या शुकगी : खलु ॥३१॥ ऊचे मन्त्री ततो राजन् !, गम्यतां सौधमात्मनः । आचारेणैव कथिता, त्वत्प्रिया सुकुलोद्भवा ॥३२॥
सत्यव्रते स्मरनन्दनकथा |
४२७